Book Title: Vallabhiya Laghukruti Samucchaya
Author(s): Vinaysagar
Publisher: Rander Road Jain Sangh
View full book text
________________
११०
श्रीश्रीवल्लभीय-लघुकृति-समुच्चयः इति विकल्पपञ्चतयी विषयपञ्चतयी च जनमनांसि क्षोभयन्तीति प्रतिभाति।
१. यदि आद्यस्तर्हि विविधजातीनां सुरनरतिर्यगविहगादीनां विविधभाषाभाषकत्वात् सुस्वरदुःस्वरोच्चैर्नीचैरादिभेदभिन्नोऽप्यनेकधा शब्दपर्यायः स्वरोऽवधार्य: १ । इत्याद्यः ॥ १ ॥
२. अथ द्वितीयस्तर्हि सोऽपि त्रीन्द्रिय-पञ्चेन्द्रियजीवानामेव तत्सद्भावाद् द्विविधोऽपि। पुनः शोभनाऽशोभनभेदाभ्यां द्विविधो मनुष्याणामेव। चन्द्र १सूर्यो २- च्च ३- नीच ४- तिर्यगादि ५ - लक्षणैरनेकधा स्वरोदयशास्त्रात् नासिकास्वरोऽवगन्तव्यः । इति द्वितीयः ॥२॥
३. अथ चेत् तृतीयस्तर्हि सोऽपि निषाद १- ऋषभ २- गान्धार ३षड्ज ४- मध्यम ५- धैवत ६- पञ्चम ७ इति लक्षणैः तन्त्रीकण्ठोद्भवैः सप्तविधः । यदमरः
निषादर्षभगान्धार-षड्जमध्यमधैवताः।
पञ्चमश्चेत्यमी सप्त तन्त्रीकण्ठोत्थिता: स्वराः।[१.७.१] इति सप्तविधोऽवसेय: । इति तृतीयः ।
४. अथ चतुर्थश्चेत्तर्हि उदात्तानुदात्तस्वरितानां त्रैविध्यात् त्रिविधः । यदमरःउदात्ताधास्त्रयः स्वराः [१.६.४]
इति, अकारादीनामेव एते। इति चतुर्थः ॥४॥
अथ पञ्चमो विवक्षितकार्यावबोधकाऽकारादिसंज्ञाप्रतिपादकश्चेत् तर्हि सोऽपि द्विधा, ज्योति:शास्त्रे व्याकरणे च द्विधा दर्शनात्।
__ तत्र ज्योति:शास्त्रानुसारेण षोडशप्रकारः, यदवदत् नरपति-दिनचर्यायां नरपतिदिनचर्याकार:
मातृकायां पुरा प्रोक्ताः स्वराः षोडशसंख्यया। इति। तथापि तन्मते कार्यकाले अ इ उ ए ओ पञ्चैवैते कार्यकारिणो ज्ञेयाः । यत् नरपतिदिनचर्याकार:
२. पाठो नास्ति जे प्रतौ।
१. स्वरोऽवधार्य: नास्ति जे प्रतौ। ३. एवं नास्ति कै.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188