SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ ११० श्रीश्रीवल्लभीय-लघुकृति-समुच्चयः इति विकल्पपञ्चतयी विषयपञ्चतयी च जनमनांसि क्षोभयन्तीति प्रतिभाति। १. यदि आद्यस्तर्हि विविधजातीनां सुरनरतिर्यगविहगादीनां विविधभाषाभाषकत्वात् सुस्वरदुःस्वरोच्चैर्नीचैरादिभेदभिन्नोऽप्यनेकधा शब्दपर्यायः स्वरोऽवधार्य: १ । इत्याद्यः ॥ १ ॥ २. अथ द्वितीयस्तर्हि सोऽपि त्रीन्द्रिय-पञ्चेन्द्रियजीवानामेव तत्सद्भावाद् द्विविधोऽपि। पुनः शोभनाऽशोभनभेदाभ्यां द्विविधो मनुष्याणामेव। चन्द्र १सूर्यो २- च्च ३- नीच ४- तिर्यगादि ५ - लक्षणैरनेकधा स्वरोदयशास्त्रात् नासिकास्वरोऽवगन्तव्यः । इति द्वितीयः ॥२॥ ३. अथ चेत् तृतीयस्तर्हि सोऽपि निषाद १- ऋषभ २- गान्धार ३षड्ज ४- मध्यम ५- धैवत ६- पञ्चम ७ इति लक्षणैः तन्त्रीकण्ठोद्भवैः सप्तविधः । यदमरः निषादर्षभगान्धार-षड्जमध्यमधैवताः। पञ्चमश्चेत्यमी सप्त तन्त्रीकण्ठोत्थिता: स्वराः।[१.७.१] इति सप्तविधोऽवसेय: । इति तृतीयः । ४. अथ चतुर्थश्चेत्तर्हि उदात्तानुदात्तस्वरितानां त्रैविध्यात् त्रिविधः । यदमरःउदात्ताधास्त्रयः स्वराः [१.६.४] इति, अकारादीनामेव एते। इति चतुर्थः ॥४॥ अथ पञ्चमो विवक्षितकार्यावबोधकाऽकारादिसंज्ञाप्रतिपादकश्चेत् तर्हि सोऽपि द्विधा, ज्योति:शास्त्रे व्याकरणे च द्विधा दर्शनात्। __ तत्र ज्योति:शास्त्रानुसारेण षोडशप्रकारः, यदवदत् नरपति-दिनचर्यायां नरपतिदिनचर्याकार: मातृकायां पुरा प्रोक्ताः स्वराः षोडशसंख्यया। इति। तथापि तन्मते कार्यकाले अ इ उ ए ओ पञ्चैवैते कार्यकारिणो ज्ञेयाः । यत् नरपतिदिनचर्याकार: २. पाठो नास्ति जे प्रतौ। १. स्वरोऽवधार्य: नास्ति जे प्रतौ। ३. एवं नास्ति कै. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004049
Book TitleVallabhiya Laghukruti Samucchaya
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRander Road Jain Sangh
Publication Year2012
Total Pages188
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy