________________
चतुर्दशस्वरस्थापनवादस्थलम्
मातृकायां पुरा प्रोक्ताः स्वराः षोडशसंख्यया । तेषां द्वावन्तिमौ त्याज्यौ चत्वारश्च नपुंसकाः ॥ शेषा दश स्वरास्तेषु स्यादेकैकं द्विकं द्विकम् । ज्ञेया अतः स्वराद्यास्ते स्वराः पञ्च स्वरोदये ।
[
]
इति । ऋ ऋ लृ ॡ एतान् चतुः संख्यान् नपुंसकान्, द्वौ अन्तिमौ अं अः इत्येतौ च त्यक्त्वा, अ इ उ ए ओ एते पञ्च कार्यकारिणः स्वराः स्वरोदये ज्ञेयाः । इति ज्योतिःशास्त्रे षोडशप्रकारो अकारादिसंज्ञाप्रतिपादकः स्वरशब्दोऽवगन्तव्यः । अथ भो! भो! व्याकरणाद्यनेक-ग्रन्थानुसारेण स्वराः कियन्त इति प्रतिपादयन्ति भवन्तः, तत्रभवन्तः, ' तर्हि तत्रैवं ब्रूमः -
अहो व्याकरणाद्यनेकग्रन्थानुसाराणां चतुर्दशसंख्यत्वदर्शनात् चतुर्दश
१११
स्वराः ।
अत्र वादी वदति - नैवम्, अ इ उ ऋ लृ समाना: [ संज्ञाप्र० १.] इत्यनेन सूत्रेण अकारादीनां पञ्चानामेव समानसंज्ञाविधानात् । तदनन्तरम् ए ऐ ओ औ सन्ध्यक्षराणि [संज्ञाप्र० ३.]
३ इत्यनेन सूत्रेण एकारादीनां चतुर्णां सन्ध्यक्षरसंज्ञाविधानात् । तत उभये स्वराः [ संज्ञाप्र० ४ ] इत्यनेन सूत्रेण अकारादीनां पञ्चानां चतुर्णां च एकारादीनां स्वर संज्ञाविधानात् नवैव स्वराः, न चतुर्दश स्वराः इति श्रीमदनुभूतिस्वरूपाचार्यवचनात् ।
अत्र प्रतिवादी वादिनं प्रति वदति
कथं भो विद्वन्! 'उभये स्वरा: ' [ संज्ञाप्र० ४.] इति पञ्चवर्णात्मके सूत्रे एतद्वृत्तौ च ' अकारादयः पञ्च चत्वार एकारादय उभये स्वरा उच्यन्ते ।' इति । त्रयोविंशतिवर्णात्मिकायां साक्षात् नवेति पदस्य अप्रतिपादनात् कथं नवस्वरा इति नियमः कर्तुं शक्यते ? अत्र वादी वदति
१. तत्र भवन्तः नास्ति ज जे. प्रतौ
२. व्याकरणेषु अकारादीनां स्वराणां कै. प्रतौ ।
३. कै. प्रतौ एकारादीनां चतुर्णां सन्ध्यक्षरसंज्ञाभिधानात् तत उभये स्वराः इत्यनेन सूत्रेण ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org