SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ रस्थापनवादस्थलम् ।। एँ नमः ॥ श्रीसिद्धी भवतान्तरां भगवती भास्वत्प्रसादोदयाद्, वाचां चञ्चुरचातुरी स्फुरतु च प्रज्ञावदाश्चर्यदा। नव्यग्रन्थसमर्थनोद्यतमति' प्रत्यक्षवाचस्पतेविद्वत्पुंस इहाशु शस्यमनसस्तच्छ्रोतुकामस्य च॥१॥ सन्ति स्वराः के कति च प्रतीताः, सारस्वतव्याकरणोक्तयुक्त्या। समस्तशास्त्रार्थविचारवेत्ता, कश्चिद् विपश्चित् परिपृच्छतीति॥२॥ पुरातनव्याकरणाद्यनेकग्रन्थानुसारेण सदादरेण। तदुत्तरं स्पष्टतया करोति, श्रीवल्लभः पाठक उत्सवाय ॥३॥ ___इह केचिद् अहङ्कारशिखरिशिखां समारूढाः सारासारविचारकरणचातुरीव्यामूढाः कूर्चालसरस्वतीति विरुदमात्मनः पाठयन्तः स्वगल्लझल्लरी-झात्कारेणा अविद्यानीं नाटयन्तः सकलशाब्दिकचक्रचक्रवर्तिचूडामणिमात्मानं मन्यमानाः स्वराणां चतुर्दशसंख्यासत्तां विप्रतिपद्यमाना अतुच्छमात्सर्याद्यनणुगुणमत्कुणतल्पकल्पाः संकल्पिताऽनल्पविकल्पा: प्रजल्पन्ति जल्पाका: स्वराः कियन्त? इति वदन्तो वादिनः सानन्दं सादरं प्रष्टव्या भवन्ति विशिष्टमतिभिः प्रतिवादिभिः । १. कोऽयं स्वरो नाम? किं शब्दपर्यायः? २. उत नासिकासमुद्भूतपर्यायः? ३. अथवा निषादादीनामवबोधकः? ४. किमुत उदात्तादीनां ज्ञापकः? ५. आहोस्वित् विवक्षितकार्यावबोधकाऽकारादि- संज्ञाप्रतिपादक:? २. तद्यथा पाठोऽधिक: कै १. मतिं कैं ३. आहोस्वित् कै. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004049
Book TitleVallabhiya Laghukruti Samucchaya
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRander Road Jain Sangh
Publication Year2012
Total Pages188
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy