SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ १०८ श्रीश्रीवल्लभीय-लघुकृति-समुच्चयः खरतरशब्दनवार्थी अथ खरतरशब्दस्य व्युत्पत्तिः= शाब्दिकप्रष्टा ब्रह्मिष्ठा विशिष्टाः खरतरा इति शब्दस्य युक्तियुक्तां नानाविधामेवम्विधां व्युत्पत्तिं विदधते= १. अतिशयेन खरा:=सत्यप्रतिज्ञा ये ते खरतराः ।। १ ।। २. यद्वा, अतिशयेन खरा: अनर्मछद्मधर्मव्यवहारपटवो ये ते खरतराः । यदुक्तं, अनेकार्थध्वनिमञ्जर्याम्= सत्यसन्धौ खरो ज्ञेयः खरोऽपि पुरुषो मतः। खरो रासभ इत्युक्तो व्यवहारे पटुः खरः।। ३. खः= सूर्यस्तद्वद् राजन्ते नि:प्रतिमप्रतिभाप्राग्भार प्रभाभिः प्रतिवादिविद्वज्जनसंसदि ये ते खराः, अत एव तरन्ति भवाब्धिम् इति तराः। खराश्च ते तराश्च खरतराः।३। ४. खानि इन्द्रियाणि, र:=कामः तौ तस्यान्तेव वशं नयन्ति ये ते खरता: साधुजनास्तेषां मध्ये राजन्ते शोभन्ते ये ते खरतराः । क्वचित् ड: [ ] इति डः प्रत्ययः । ४। ५. खं = सुखं भावसमाधिलक्षणं तस्य र:=रक्षणं तत् तरन्ति=कुर्वन्ति ये, धातूनामनेकार्थत्वात् इति ते खरतराः।५। ६. खा:-दीना ये जनास्तेषां र:=भयं तस्य विध्वंसयति यः स खरतः, तादृग्विधो र:= ध्वनिः सिद्धशुद्धप्रशुद्धविशुद्धसिद्धान्तवचननिर्वचनलक्षणो येषां ते खरतराः। ६। ७. यद्वा, खं-संविद् तत्र रताः तत्पराः खरताः मुनिजनास्तान् रान्ति ददति अर्थात् सम्यग्ज्ञानादि ये ते खरतराः । ७। ८. खः खड्गस्तद्वत् रा: तीक्ष्णाः कुमतिमतिविदारणे ये ते खराः, तानां तस्कराणां जिनमतप्रद्वेषिदृप्तकुवादिजनलक्षणानां रा इव-वज्र इव ये ते तराः । खराश्च ते तराश्च खरतराः। ९. खं-स्वर्गं रान्ति ददति अर्थात् भक्तजनानां ये ते खराः, अतिशयेन खराः खरतराः। ९। इति खरतराणां व्युत्पत्तिः। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004049
Book TitleVallabhiya Laghukruti Samucchaya
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRander Road Jain Sangh
Publication Year2012
Total Pages188
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy