SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ ओकेशोपकेशपदद्वयदशार्थी वृद्धेरभावः । श्रीरत्नप्रभसूरितोऽनेकश्रावकप्रतिबोधविधानानन्तरं लोके गच्छस्य उपकेश इति नाम प्रसिद्धं जातम् । इति द्वितीयोऽर्थः ।। २ ।। ३. कः=ब्रह्मा, अः=कृष्णः, अ: = शङ्करः, ततो द्वन्द्वे का:, तै: ईष्टे-ऐश्वर्यं अनुभवति यः सः केशः । कानाम् ईशः = ऐश्वर्यम् यस्माद् वा केशः=पारितीर्थिकधर्म:, स उपवर्जितः त्यक्तो यस्मात् स उपकेशः । तीर्थकृदुक्तविशुद्धधर्मः स विद्यते यस्मिन् गच्छे स उपकेशः । अत्रापि अभ्रादित्वाद् अः प्रत्ययः । इति तृतीयोऽर्थः । । ३ । । ४. कं च-सुखम्, ईः च= लक्ष्मीः, कयौ ईशे = स्वायत्ते यत्र यस्माद्वा स केशः । अर्थाज्जैनो धर्मः स उप-समीपे अधिको वा यस्माद् गच्छात् स उपकेशः । इति चतुर्थोऽर्थः । । ४ ।। ५. कश्च अश्च ईशश्च केशा :- ब्रह्मविष्णुमहेशाः तद्धर्मनिराकरणात् ते उप=हता येन सः उपकेशः । प्रकरणादत्र श्रीरत्नप्रभसूरिगुरुः तस्याऽयम् उपकेशः । अत्रापि तस्येदं [ ] इति अणि प्रत्यये पूर्ववदवृद्धिरभावो न दोषपोषाय । इति पञ्चमोऽर्थः ।। ५ ॥ इत्थमन्येऽप्यनेके अर्थाः ग्रन्थानुसारेण विधीयन्ते परं अलं बहुश्रमेण इति । एवमुक्तव्यक्तयुक्तयुक्तिव्यक्तिशक्त्या ओकेशोपलक्षणे उभे अपि नाम्नी यथार्थे घटां प्राञ्चतः । इति ओकेशोपकेशपदद्वयदशार्थी समाप्ता । १०७ ।। सं. १६५५ वर्षे श्रीमद्विक्रमनगरे सकलवादिवृन्दकन्दकुद्दालककुदाचार्यसन्तानीय - श्रीमच्छ्रीसिद्धसूरीश्वराणामाग्रहतः श्रीमद्बृहत्खरतरगच्छीयवाचनाचार्यधुर्यश्रीज्ञानविमलगणिशिष्यपण्डित श्रीवल्लभगणिविरचिता चेयम् । श्रीरस्तु सर्वदा सर्वदानविशारदा श्रीशारदा सुप्रसादा भवतु विशारदजनवृन्दस्य । कल्याणमस्तु । श्रीः । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004049
Book TitleVallabhiya Laghukruti Samucchaya
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRander Road Jain Sangh
Publication Year2012
Total Pages188
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy