Book Title: Vallabhiya Laghukruti Samucchaya
Author(s): Vinaysagar
Publisher: Rander Road Jain Sangh
View full book text
________________
चतुर्दशस्वरस्थापनवादस्थलम्
११३ समानातिसंख्यां पुराणव्याकरणानुसारिणी प्रमाणयितुं ह्रस्वदीर्घप्लुतैः स्थानप्रयत्नादिभिश्च स्वर्णसंज्ञां ज्ञापयितुं च 'हस्वदीर्घप्लुतभेदाः सवर्णाः' [संज्ञाप्र० २.] इति परिभाषासूत्रं व्यरचयद् आचार्यः, अनियमे नियमकारिणी परिभाषेति परिभाषालक्षणात् पूर्वसूत्रेण समानसंज्ञाया अनिश्चयीकरणात् 'हस्वदीर्घप्लुतभेदाः सवर्णा'[संज्ञाप्र० २.] इति परिभाषासूत्रेण ह्रस्वदीर्घयोः सावात् सरस्वतीकृते सूत्रे ह्रस्वोक्त्या दीर्घसंग्रह इति वचनादपि दीर्घग्रहणात् 'दश समानाः' [कातन्त्र. १।१।३।] इति समानसंज्ञा निरणयत्।
अपरञ्च स्थानप्रयत्नाभ्यामपि सवर्णाः [ ] इति सवर्णसंज्ञां प्राज्ञापयत् श्रीमदनुभूतिस्वरूपाचार्यः।
ननु प्लुतभेदयोस्तु समानसंज्ञां प्लुतभेदयोस्तु सवर्णसंज्ञामेव इति हस्वदीर्घप्लुतभेदा इत्यत्र भेदशब्दग्रहणात् स्थानप्रयत्नयोर्ग्रहणात् स्थानप्रयत्नाभ्याम् अकारादीनां व्यञ्जनानां च सवर्णसंज्ञा दर्शनात् । तथा च पाणिनिः। तुल्यास्यप्रयत्नं सवर्णम् ' [पाणिनि १.१.९ ] इति। तथा च कालापकव्याकरणम्। 'दश समानाः' [कातन्त्र० १।१।३] तस्मिन् वर्णसमाम्नायविषये आदौ ये दशवर्णास्ते समानसंज्ञा भवन्ति। 'तेषां द्वौ द्वावन्योन्यस्य सवर्णी' [कातन्त्र. १ । १ । ४ ] । तेषामेव दशानां समानानां मध्ये यौ द्वौ द्वौ वर्णौ तौ अन्योन्यस्य परस्परं सवर्णसंज्ञौ भवतः । सवर्ण ९ - अ आ इ ई उ ऊ ऋ ऋ ल ल तेषां ग्रहणं व्यक्त्यर्थं,३ तेन ह्रस्वयोर्द्वयोः दीर्घयोश्च द्वयोः सवर्णसंज्ञा सिद्धेति । तच्चैवम्
ह्रस्वदीर्घः अ आ १, दीर्घह्रस्व: आ अ २, ह्रस्वह्रस्व: अ अ ३, दीर्घदीर्घः आ आ ४. इति चतुर्भङ्गी। तदुक्तम्
क्रमोत्क्रमस्वरूपेण सवर्णत्वं निवेदितम्।
इष्टादपि सवर्णत्वं भणितं ऋलकारयोः॥१॥ [ ] इति । तथा च हैमव्याकरणम्- लृदन्ताः समानाः [सिद्धहेम. १.१.७] इति । तथा च नरपतिः
१. समानसंज्ञा प्लुतभेदयोस्तु नास्ति ज़ प्रतौ। २. अन्योन्यसंज्ञौ इति कै. ३. व्यक्तिरर्थः प्रयोजनमस्य करणस्य तत्, कैः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188