Book Title: Vallabhiya Laghukruti Samucchaya
Author(s): Vinaysagar
Publisher: Rander Road Jain Sangh

View full book text
Previous | Next

Page 160
________________ खचरानन पश्य सखे खचर पद्यस्य व्याख्या-त्रिकम् १०१ कन्दर्पो मेघश्च मम दुःखं करोतीत्यर्थः । किम्भूतस्त्वं हे खचरानन? खचराङ्कितपत्रशतः !, खम्=सम्यग्ज्ञानं तच्चरति यः सः खचरः, 'खं स्व: संविदि' [अनेकार्थसंग्रह १/५] इति वचनप्रामाण्यात् । अङ्कितम् विचित्रचित्रश्चित्रितं पत्रशतम्-वाहनं यस्य स अङ्कितपत्रशतः। खचरश्चासौ अङ्कितपत्रशतश्च इति कर्मधारयसमासे खचराङ्कितपत्रशतः। इति द्वितीयोऽर्थः । २। कश्चिद् विपश्चिद् मङ्गलपाठकः प्रभाते जाते सति कञ्चन राजानं प्रति प्रभातसमयं प्रबोधयति स्म-'वाच्यलिङ्गः ख शब्दोऽर्के वितर्के व्योम्नि वेदने। प्रश्ननिन्दानृपक्षेपसुखशून्येन्द्रिये दिवि।' इति वचनप्रामाण्यात्। ख- शब्देन राजा प्रोच्यते, ततस्तत्सम्बोधने हे ख!= हे राजन!, हे खचरानन!-हे चन्द्रवचन! स त्वं पश्यं विलोकय। खचर:-सूर्यः तस्य आगमनम् उदय इति यावत् । यस्मिन्काले खचरागमनः तस्मिन् खचरागमने=प्रभातसमये खे चरतीति खचर:=चक्रवाको रटते-जल्पति। खचर इत्यत्र जातावेकवचनम्। ते न खचर इत्युक्ते खचरा: = चक्र वाका: रटन्तीत्यर्थ: । रटतेर्धातोरित्यत्राप्यात्मनेपदित्वं प्राग्वदवसेयम्। किम्भूतः सन् खचरो रटते? खे-आकाशे चरतीति खचरः सन् । कोऽर्थः? आकाशे उड्डीनः सन् इत्यर्थः । चकारोऽत्र अध्याहार्यः । तेन च पुनः खचरी चकोरस्त्री, हा इति खेदे, हे खचर! हे चन्द्र ! इति समुच्चरति । खस्य-सुखस्य चर:=गमनं यत्र तत् खचरं, सदु:खमित्यर्थः । एवं यथाभवति तथा परिरोदिति, भृशं खिद्यतीत्यर्थः । स त्वं पश्य। स इति कः? यस्त्वं खचराङ्कितपत्रशतः, खे-स्वर्गे चरति विचरतीति खचर:=इन्द्रः; स इव अङ्कित: लक्षितो ज्ञातो यः सः खचराङ्कितः, पत्राणाम् वाहनानां गजाश्वादीनां शतं यस्य स पत्रशतः । खचराङ्कितश्चासौ पत्रशतश्च इति कर्मधारये खचराङ्कितपत्रशतः। इति तृतीयोऽर्थः । ३।। एवमन्येऽप्यर्था भूयांसो भवन्ति, परं किं बहुश्रमेण इति । येषां वाचःशिशिररुचिकलेवातिशुद्धा विबुद्धास्तेषां श्रीवाचकज्ञानविमलसुगुरूणां सुशिष्यः सहर्षम्। Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188