Book Title: Vallabhiya Laghukruti Samucchaya
Author(s): Vinaysagar
Publisher: Rander Road Jain Sangh

View full book text
Previous | Next

Page 153
________________ ९४ श्रीश्रीवल्लभीय-लघुकृति-समुच्चयः अनयन्त=प्रापयन्। री गतिरेषणयोः [पा. धा. १५९९], रेषणं हिंसा इति धातुपारायणे _ [ ] आत्मनेपदी रयणं रयः परश्च [पा. सू. ३/१/२] इति .... वादौ अश्च हिंसा क्षय इति यावत् रायणं रैषणं रेभृ शब्दे [पा. धा. ४१०] इति क्रयादि परस्मैपदी माधवः । अयं वसुदेवकृतप्रश्नार्थः । एतानि वसुदेवकृतप्रश्नाक्षराणि एषा एभिरेवाक्षरैर्वसुदेवं प्रतिरायणः उत्तरति-तायकमनयन्तरयम् प्राकृतमेतत् । अस्यार्थ:-ताय हे तात! हे पितः! वसुदेव! कमनयन्तरयं क्रमनयाऽन्तरतं क्रमश्च-परम्परा, अर्थात् कुलस्य, नयश्च नीतिः इति द्वन्द्वे क्रमनयौ। क्रमस्तु स्यात् पदसन्धिपरम्परयोः इति [ ] परम्पराशब्दोऽत्र अन्वयार्थः । परम्पराऽन्वये वधे इति हैमानेकार्थः [अनेकार्थ. २/४७५] । तयोरन्ते-विनाशे यो रतः आसक्तः सः क्रमनयान्तरतस्तम्। यः कुलं न्यायं च नाशयति तं, लक्ष्म्यौ नाशं नयन्तीत्यर्थः। अथवा क्रमायातो नयः क्रमनयः परम्परागतन्यायः। यद्वा क्र म:=शास्त्रां तदुक्तो नयः क्र मनयः राजनीतिशास्त्राद्युक्तनीतिः । अत्रोभयत्र शाकपार्थिवादिवन् [पा. वा. १७८] मध्यपदलोपी समासः । क्रमः कल्पांहिशक्तिषु परिपाट्यामिति। [अनेकार्थ संग्रह २/३२०] कल्पो। न्यायः शास्त्रं इति तट्टीका तथा च पाणिनिव्याकरणसूत्रम् क्रमादिभ्यो वुन् [पा. सू. ४/२/६१] । अत्रहि क्रमशब्दः शास्त्रपर्यायः, क्रमं वेत्ति अधीते वा क्रमकः, क्रमनयस्य अन्तो नासः तत्र रतो सः क्रमनयान्तरतस्तं। आर्याभेदः-द्वाभ्यां शाखाचित्र समवर्णप्रश्नोत्तरजातिः ॥ १९ ॥ किं प्राहुः परमार्थतः कमृषयः ? किं दुर्गमं वारिधेविद्याः कं न भजन्ति? रागिमिथुनं कीदृक्किमर्धं स्मृतम् ?। रक्षांसि स्पृहयन्ति किं ? तनुमतां कीदृक् सुखार्थादिकं ?, कीदृक्कर्षकलोकहर्षजनकं न व्योमवर्षाष्वपि?॥ २०॥ ॥विगतजलदपटलम्॥ विपरीतमष्टदलकमलम्॥ व्याख्याः- किं प्राहुः इति। ऋषयः तत्त्वज्ञाः मुनयः परमार्थतः परमाभिधेयेन कं किं प्राहुः ? इति प्रश्ने, उत्तरं– विलं गलं-गलकण्ठं, विलं Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188