Book Title: Vallabhiya Laghukruti Samucchaya
Author(s): Vinaysagar
Publisher: Rander Road Jain Sangh
View full book text
________________
प्रश्रोत्तरैकषष्टिशतकाव्यम्
९५ बवयोरैक्यात् बिलं-विवरं प्राहुरिति योज्यम् । शरीरे प्रायो गलस्येव विवरत्वेन प्रतिपादनात्।
वारिधेः समुद्रस्य किं दुर्गमं दुःखेन गमनयोग्यम् ? इति प्रश्ने, उत्तरं- तलम् अधोभागः । तलं स्वरूपाधरयोः इति महेश्वरः [विश्वप्रकाश र-द्विकम्-७] अत्र अधरशब्दः अधोभागपर्यायः ।
विद्याः चतुर्दश संख्याः, षडङ्गाद्याः पुराणान्ताः कं न भजन्ति न सेवन्ते? षडङ्गो ६, वेदाश्चत्वारो १० मीमांसा ११, ऽऽन्वीक्षिकी १२ तथा धर्मशास्त्रं १३ पुराणं १४ च विद्या एता चतुर्दशः॥ इति प्रश्ने, उत्तरं- जलं जडमित्यर्थः । जलं गोकलले (मु. सं. गोकवले) नीरे ह्रीबेरे च जडेऽन्यवत् इति महेश्वरः [विश्वप्रकार ल-द्विकम्-४] । रागि! मिथुनं, रागि कामसहितं तच्च तन्मिथुनं च दम्पतियुग्मं रागिमिथुनम् । कीदृक् ? रागी रक्तरि (रक्ते च) कामुके इति महेश्वरः [विश्वप्रकाश न-त्रिकम् १११] । मिथुनं दम्पतियुग्मे इति श्रीधरः [विश्वलोचन. न तृतीय-१०७] इति प्रश्ने, उत्तरं- ललं लडविलासे [पा. धा. ३८३] भ्वादि: परस्मैपदी। डलयोरैक्यात् डस्य लत्वे ललति=विलसति क्रीडतीत्यर्थः यत्तत् अचि ललं...............
[अपूर्णम्]
इत्यत्र भोभगोअघोअपूर्वयो ऽशीयत्वम्
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188