Book Title: Vallabhiya Laghukruti Samucchaya
Author(s): Vinaysagar
Publisher: Rander Road Jain Sangh

View full book text
Previous | Next

Page 156
________________ केशाः कञ्जालिकाशाभाः पद्यस्य व्याख्या ९७ पुनः किम्भूताः केशाः ? करकारिपिनाकभाः, करक:=कमण्डलुः इति लोकप्रसिद्धः पानीयभाजनविशेषः । 'करको दाडिमे पक्षिभेदे करे कमण्डलौ' [ ] इति हैमः । अराणि=चक्राङ्गविशेषाः, लोके अरा इति भाषा । 'अरं शीघ्रे न चक्राङ्गे' [विश्व. प्र. र. द्धि. ३] इति महेश्वरः । तानि सन्त्यस्य अरीचक्रं सुदर्शननामकम्। पिनाकः = ईश्वरधनुः । पिनाकोऽजगवं धनुः ' [ अमर. १.१.३५ ] इति अमरः । एषां द्वन्द्वे करकारिपिनाकाः, तैः कृत्वा भान्ति = शोभन्ते ये ते करकारिपिनाकभाः । 'क्वचित्' [ ] इति डः प्रत्यय । अनेन किमुक्तं भवति ? करकशोभितो ब्रह्मा, ब्रह्मण: पाणौ कमण्डलुरिति लोकप्रसिद्धित्वात् । सुदर्शनाख्यचक्रायुधशोभितः कृष्णः । पिनाकधनुरायुधशोभितः शम्भुरिति । ननु करकारिपिनाका इत्यत्र द्वन्द्वे अल्पस्वरप्रधाने कारो=कारान्तानां पूर्वनिपातो वक्तव्यः इति अनुभूतिस्वरूपाचार्यवचनात्।‘अल्पाच् तरं’ [पा.सू. २.२.३४] अत्यल्पाच्कं द्वन्द्वे पूर्वं स्यात् इति पाणिनीयवचनाच्च अरिशब्दस्य पूर्वनिपातः स्यात् । अरिकरकपिनाकाः इति, तथा च सति क्रमव्यत्ययश्छन्दोभङ्गश्च स्यात् इति संशयापनोदाय ब्रूमः । मैवम्, बहुष्वनियम: [ ] इति तत्रैव पाणिनीयाचार्यैरुक्तत्वात् । यथा चोदाहरणम् - शङ्खदुन्दुभिर्वीणाः वीणाशङ्खदुन्दुभयः इति वत् करकारिपिनाका इति युक्तौ द्वन्द्वसमासः । न चात्रैवं सति क्रमव्यत्ययच्छन्दोभङ्गश्चेति । पुनः किम्भूताः केशाः ? विविगोगतयः, वि: - हंसः, विभिः = हंसै: रिच्यते=उह्यते विरिञ्चः, अकारान्तः शब्दः, पृषोदरादित्वात् साधुः इति अभिधानकोषवृत्तिः। विः=गरुडः, वि: पक्षी गरुडः सूर्यः [एकाक्षर नाममाला ८६] इति सौभरिः। गौ:- वृषभः, गौः पुमान् वृषभे स्वर्गे [ विश्वलोचन १] इति श्रीधरः । एतेषां द्वन्द्वे विविगाव:, तैः कृत्वा गतिः - गमनं येषां ते विविगोगतयः । किमुक्तं भवति ? हंसगतिर्ब्रह्मा, गरुडगतिः कृष्णः, गोगतिः शम्भुरिति । ] ननु विश्व हंसः विश्व मसह इत्यत्र द्वन्द्वे स्यादौ विभक्तौ तुल्यरूपाणां सहोक्तौ गम्यमानायाम् एकः शिष्यते इत्युक्तत्वात् । स्यादावसंख्येय [ इति सूत्रेण स्यादौ तुल्यरूपत्वात् वी इति एक शिष्यते । यथा- अक्षश्च शकटाक्षः, अक्षश्च देवनाख्यः, अक्षश्च विभीतकाख्यः, अक्षाः । एवं हरिण्यौ, रोहिण्यौ, वृक्षौ For Personal & Private Use Only www.jainelibrary.org Jain Education International

Loading...

Page Navigation
1 ... 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188