Book Title: Vallabhiya Laghukruti Samucchaya
Author(s): Vinaysagar
Publisher: Rander Road Jain Sangh

View full book text
Previous | Next

Page 147
________________ ८८ श्रीश्रीवल्लभीय- लघुकृति-समुच्चयः मत्स्याः कुत्र क्रीडन्ति? इति प्रश्ने, उत्तरम्- अप्सु पानीयेषु । मुरजित्=नारायणः प्रवदति-कथयति कापिले सांख्यमते भोगभाक् भोगान् राज्य-सुख-धन-पालन-भोजन-वेश्या-भृतीर्भजन्तीति भोगभाक् कः? भजो ण्विः [३/२/६२] इति ण्विः। इति प्रश्ने, उत्तरम्- अना, हे अ! नारायणः, पुरुषः, आत्मेत्यर्थः । वा- सांख्यमते हि प्रकृतिः कर्ता, आत्मानभोक्ता। यदवादीत्– अमूर्तश्चेतनो भोगी नित्यः- सर्वगतोऽक्रियः । अकर्ता निर्गुणः सूक्ष्म आत्मा कापिलदर्शने। (षड्दर्शन समुच्चय का-४१ गुणरत्नटीकायाम्) इति। कीदृशेन प्रियेण वल्लभेन कीदृक् का न आलिङ्ग्यते? कथं भूता का? अपीति सम्भावनायां अव्ययम्। प्रणयभृत् प्रणय-प्रेमयाञ्चां विश्वासं वा बिभर्तीति क्विपि प्रणयभृत्, स्नेहवती सुरताभिलाषात्-सुरतयाचिका विश्वासवती वेत्यर्थः । स्वकीया परकीया वा नायिका, प्रणयः प्रेम्णि विस्त्रम्भे याच्ञाप्रसरयोरपि इति महेश्वरः [विश्वप्रकाश य-त्रिकम्-६५] इति प्रश्ने, उत्तरम्- अस्नातास्त्रीमङ्गलेप्सुना अस्नाता-अकृतस्नाना स्त्री स्वकीया परकीया वा नारी, स्त्रीशब्दस्य स्वकीयायाः परकीयायाश्च नायिकायाः सामान्येन नामत्वात्। मङ्गलेप्सुना=मङ्गलम् इप्सुर्मङ्गलेप्सुः न लोकाव्यय. [पा. सू. २/ ३/६९] इति षष्ठीनिषेधात् द्वितीयासमासः, तेन मङ्गलेप्सुना कल्याणं विवाञ्छिषुणा इत्यर्थः। अष्टदलकमलम्॥ १४ ॥ (प्सु अ । स्त्री) में कीदृशो नाव इष्यन्ते तरीतुं वारि वारिधेः ?। अशिवध्वनिराख्याति तिर्यग्भेदं च कीदृशः?॥ १५॥ ॥ अपराजयः॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188