Book Title: Vallabhiya Laghukruti Samucchaya
Author(s): Vinaysagar
Publisher: Rander Road Jain Sangh

View full book text
Previous | Next

Page 132
________________ प्रश्नोत्तरैकषष्टिशतकाव्यम् ७३ वैशिष्ट्यमिति तट्टीका इति प्रश्ने, उत्तरम् - अपरागमनसां अपगतौ रागौ विषयाभिलाषात्त्विकोऽनुरागो वा यस्मात् तत् अपरागम्, एवंविधं मनो येषां ते अपरागमनसस्तेषां । रागोऽनुरक्तौ मात्सर्ये क्लेशादौ लोहितादिषु इति महेश्वरः [विश्वप्रकाश ग-द्विकम् - ९] क्लेशा = अविद्यादयः, यदाह - अविद्या स्मृतः रागद्वेषाभिनिवेशा: क्लेशाः । आदिशब्दाद् विषयाभिलाषादि ॥ द्विर्व्यस्तसमस्तजातिः ॥ ४॥ प्रभविष्णुविष्णुजिष्णुनि युद्धे कर्णस्य कीदृगभिसन्धि: ? । नकुलकुलसङ्कुलभुवि प्रायः स्यात्कीदृगहिनिवहः ? ॥ ५ ॥ ॥ विलसदनरतः ॥ [ द्विः समस्तजाति: ] व्याख्या:- प्रभविष्णु इति । युद्धे सङ्ग्रामविषये कर्णस्य कर्णनाम्नो राज्ञः कीदृक् अभिसन्धिः ? प्रतिज्ञासु अभिमुखः = अभिमुखः सन्धिरेकत्वं मिथो=मेल इत्यर्थः अभिसन्धिः, कुगति प्रादयः [पा. सू. २२१८] इति समासः । युद्धार्थं मिथो मेल:, सन्धिविग्रह- राज्यानां विग्रहो यानमासनं द्वैधमाश्रयः षड्गुणा: [ ] इति वचनात् । राज्यषड्गुणमध्ये सन्धिः प्रथमो गुणः । कथं भूते युद्धे ? प्रभविष्णुविष्णुजिष्णुनि विष्णुश्च =नारायणः जिष्णुश्च अर्जुन: द्वाभ्यामितरेतरयोगद्वन्द्वे विष्णुजिष्णू, प्रभविष्णू= ईश्वरभवनशीलौ विष्णुजिष्णू यस्मिंस्तत् तस्मिन् प्रभविष्णुजिष्णुनि । ऐश्वर्यार्थोऽत्र प्रोपसर्गः, तद्योगे भूधातुः ईश्वरार्थः - यथा प्रभुर्देशस्य तथा प्रभविष्णुरपि, इति प्रश्ने, उत्तरं - विलसदनरतः । अत्र च नारायणः नरश्च = अर्जुनः द्वाभ्यामितरेतरयोगद्वन्द्वे अनरौ । नरोऽजे मानवेऽर्जुने इति विश्वः [विश्वप्रकाश र-द्विकम् - ५] विलसन्तौ इव - ओजस्वि - तेजस्वि - वर्चस्वित्वादिगुणैः क्रीडन्तौ इव, संग्रामादिकेषु कर्मसु श्लिष्यन्तो वा समादधतौ तत्परीभवन्तौ रतौ इति यावत्, अनयौ अनरौ तौ विलसदनरौ तौ कर्मतापन्नौ तस्यतिम् = उपक्षयं नयति यः सः विलसदनरतः । तसु उपक्षये [पा. धा. १२८९] दिवादिः परस्मैपदी क्विप् डप्रत्यो वा, लस श्लेषणक्रीडनयोः [पा. धा. ७५९] परस्मैपदी अचि लसः, कर्मसु श्लिष्टः समाहित इति यावत् इति Jain Education International = For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188