Book Title: Vallabhiya Laghukruti Samucchaya
Author(s): Vinaysagar
Publisher: Rander Road Jain Sangh

View full book text
Previous | Next

Page 139
________________ श्रीश्रीवल्लभीय-लघुकृति-समुच्चयः गर्भजजीवानां ध्वंसरूपः क्षोदः स रतविमर्दः, सततं निरन्तरं रतविमर्दः सततरतविमर्दस्तस्मिन् बद्धा=निगडिता बुद्धिर्यया सा बद्धबुद्धिः । कथं भूते सततरतविमर्दे ? निर्दये दयारहिते इति प्रश्ने, उत्तरम्- अक्षरणं वीर्यस्य अपतनं प्रभूतकालं यावत्त् सम्भोगासेवनरूपामतिः । हनूमान् किं चक्रे किम् अकरोत् ? इति प्रश्ने, उत्तरम्- अक्षरणं अक्षः रावणसुतस्तेन सह यो रणः सङ्ग्रामस्तम् अक्षरणम्। अक्षो रथस्यावयवे व्यवहारे विभीतके। प्रासके शकटे कर्षे ज्ञाने चात्मनि रावणौ इति है मानेकार्थः [अनेकार्थ २/५६९] । रणशब्दः पुंक्लीबलिङ्गः। वर्द्धमानाक्षरचलबिन्दुजातिः ॥ ८॥ भूरापृच्छति किल चक्र-वाकमेषोऽपि भूमिमप्राक्षीत्। पीतांशुकं किमकरोत् ? कुत्र? क्व नु मादृशां वासः?॥ ९॥ ॥ कोकनदे॥ व्याख्या:- भूरापृच्छतीति। किल इति वार्तायां, भूः पृथिवी चक्रवाकम् आपृच्छति आदिशति-समन्तात् ज्ञातुमिच्छति। प्रच्छ जीप्सायां [पा. धा. १५०६] इत्यस्य द्विकर्मकत्वात्, चक्रवाकान् किञ्चिदन्यत् पीतांशुकं पीतं पिशङ्गं यदंशुकं वस्त्रं तत्पीतांशुकं कुत्र कस्मिन् किमकरोत् ? इति प्रश्ने, उत्तरं- कोऽकनदे हे को! हे भूमे ! अकनत्=अशोभन्त। ए-नारायणे, गोत्रा कुः पृथिवी पृथ्वी इत्यमरः [अमर. २/१/३] कनि दीप्तिकान्तिगतिषु [पा. धा. ४९२] भ्वादि परस्मैपदी। अः कृष्णः इत्यमरः [अमरचन्द्र. एकाक्षरनाममालिका-२] ज्ञातुमिच्छतीत्यर्थः आङ् उपसर्गोऽनमर्यादार्थः । ननु आङि नुप्रच्छः [पा. वार्तिक ४५५] इति वार्तिकात् आङ् पूर्वः प्रच्छेरालिङ्गादिना कुशलादिपृच्छार्थत्व आत्मनेपदित्वं च। यत्कालिदासो मेघदूतकाव्ये-आपृच्छस्व प्रियसखमऽमुं तुङ्गमालिङ्ग्य शैलं [पूर्व मेघ१३] तथा च- हैमकोष:-आनन्दनं त्वाप्रच्छनं स्यात् सभाजनमित्यपि [अभिधा. ३/३९५] इत्यपीति। तत्कथं नाऽत्रालिङ्ग्य-कुशलादिपृच्छार्थः आत्मनेपदित्वं च? ब्रूमः-यत्र आड्यूर्वः पृच्छिरालिङ्गनादिना कुशलादिपृच्छार्थः आलिङ्गनादिना, आनन्दनार्थः तत्रैवाऽयमात्मनेपदी, न सर्वत्र। अतोऽत्र Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188