________________
श्रीश्रीवल्लभीय-लघुकृति-समुच्चयः गर्भजजीवानां ध्वंसरूपः क्षोदः स रतविमर्दः, सततं निरन्तरं रतविमर्दः सततरतविमर्दस्तस्मिन् बद्धा=निगडिता बुद्धिर्यया सा बद्धबुद्धिः । कथं भूते सततरतविमर्दे ? निर्दये दयारहिते इति प्रश्ने, उत्तरम्- अक्षरणं वीर्यस्य अपतनं प्रभूतकालं यावत्त् सम्भोगासेवनरूपामतिः ।
हनूमान् किं चक्रे किम् अकरोत् ? इति प्रश्ने, उत्तरम्- अक्षरणं अक्षः रावणसुतस्तेन सह यो रणः सङ्ग्रामस्तम् अक्षरणम्। अक्षो रथस्यावयवे व्यवहारे विभीतके। प्रासके शकटे कर्षे ज्ञाने चात्मनि रावणौ इति है मानेकार्थः [अनेकार्थ २/५६९] । रणशब्दः पुंक्लीबलिङ्गः। वर्द्धमानाक्षरचलबिन्दुजातिः ॥ ८॥
भूरापृच्छति किल चक्र-वाकमेषोऽपि भूमिमप्राक्षीत्। पीतांशुकं किमकरोत् ? कुत्र? क्व नु मादृशां वासः?॥ ९॥
॥ कोकनदे॥ व्याख्या:- भूरापृच्छतीति। किल इति वार्तायां, भूः पृथिवी चक्रवाकम् आपृच्छति आदिशति-समन्तात् ज्ञातुमिच्छति। प्रच्छ जीप्सायां [पा. धा. १५०६] इत्यस्य द्विकर्मकत्वात्, चक्रवाकान् किञ्चिदन्यत् पीतांशुकं पीतं पिशङ्गं यदंशुकं वस्त्रं तत्पीतांशुकं कुत्र कस्मिन् किमकरोत् ? इति प्रश्ने, उत्तरं- कोऽकनदे हे को! हे भूमे ! अकनत्=अशोभन्त। ए-नारायणे, गोत्रा कुः पृथिवी पृथ्वी इत्यमरः [अमर. २/१/३] कनि दीप्तिकान्तिगतिषु [पा. धा. ४९२] भ्वादि परस्मैपदी। अः कृष्णः इत्यमरः [अमरचन्द्र. एकाक्षरनाममालिका-२] ज्ञातुमिच्छतीत्यर्थः आङ् उपसर्गोऽनमर्यादार्थः ।
ननु आङि नुप्रच्छः [पा. वार्तिक ४५५] इति वार्तिकात् आङ् पूर्वः प्रच्छेरालिङ्गादिना कुशलादिपृच्छार्थत्व आत्मनेपदित्वं च। यत्कालिदासो मेघदूतकाव्ये-आपृच्छस्व प्रियसखमऽमुं तुङ्गमालिङ्ग्य शैलं [पूर्व मेघ१३] तथा च- हैमकोष:-आनन्दनं त्वाप्रच्छनं स्यात् सभाजनमित्यपि [अभिधा. ३/३९५] इत्यपीति। तत्कथं नाऽत्रालिङ्ग्य-कुशलादिपृच्छार्थः आत्मनेपदित्वं च? ब्रूमः-यत्र आड्यूर्वः पृच्छिरालिङ्गनादिना कुशलादिपृच्छार्थः आलिङ्गनादिना, आनन्दनार्थः तत्रैवाऽयमात्मनेपदी, न सर्वत्र। अतोऽत्र
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org