________________
प्रश्नोत्तरैकषष्टिशतकाव्यम्
असुमेति पदं तत् अवतमसं । तकार - मकार - सकार - अकार उच्चारणार्थः, ततः सिद्धम् । ए इ इति शब्दद्वयं सिद्धम् । तस्यायमर्थः - इ:= कामस्तत्सम्बोधनं हे ए ! = काम, इकार उच्यते कामः इत्येकाक्षरकोषः [महाक्षपणक-३८]। अस्य - विष्णोरपत्यं इः, अत इञ् [ पा. सू. ४/१/ ९५] इति इञ्, ह्रस्वस्य गुण: [ पा. सू. ७ / ३ / १०८] इति गुणे, एह्रस्वात्संबुद्धेः [पा. सू. ६/१/६७ ] इति सम्बुद्धिलोपे च ए इति रूपम् । हे इ! लक्ष्मि ! अस्य नारायणस्य स्त्री ई, पुंयोगादाख्यायाम् [पा. सू. ४/ १/४८] इति ङीष्, अम्बार्थनद्योर्हस्वः [पा. सू. ७/३/१०७] इति संबुद्धौ ह्रस्वे हे इ! नारायणस्त्रि ! इति रूपं हे नारायणस्त्रि इत्यर्थः । आर्या ॥ ७ ॥ कमभिसरति लक्ष्मीः ? किं सरागैरजय्यं ?, सकलमलविमुक्तं कीदृशं ज्ञानमुक्तम् ? | सततरतविमर्दे निर्दये बद्धबुद्धिः, किमभिलषति कान्ता ? किं च चक्रे हनूमान् ? ॥ ८ ॥
व्याख्या:
॥ अक्षरणम्॥ वर्द्धमानाक्षर - चलद्विन्दुजातिः ॥ कमभिसरतीति । लक्ष्मी: नारायणस्त्री कमभिसरति सम्मुखं याति ? इति प्रश्ने, उत्तरम् - अं नारायणं । अः कृष्ण इत्यमरः [अमरचन्द्र एकाक्षरनाममालिका - २] सरागैः सह रागेण=अनुरागेण विषयाभिलाषादिना वा वर्तते ये ते सरागास्तैः । किम् अजय्यं ! जेतुमशक्यम् इति प्रश्ने, उत्तरम् - अक्षम् इन्द्रियं जात्यपेक्षया एकवचनम् अक्षं स्याद्रिन्द्रिये क्लीबं इति श्रीधर : [ विश्वलोचन स द्वितीय - २]
७९
कीदृशं ज्ञानं ? सकलमलविमुक्तं समस्तदोषरहितम् उक्तम् कथितम् ? इति प्रश्ने, उत्तरम् - अक्षरं न क्षरति न चलति कटकुड्यादिना यत्तत् अक्षरं केवलज्ञानं, अक्षरं न द्वयोर्मोके ब्रह्मणि व्योमवर्णयोः इति [विश्वलोचन- २ - तृतीय - ११०] श्रीधरः ।
कान्ता स्त्री किमभिलषति वाञ्छति ? कथं भूता कान्ता ? सततरतविमर्द्दे बद्धबुद्धिः । मृद क्षोदे [पा. धा. १६१६] क्रयादिः घञि, मर्दः, विशिष्टो मर्दः विमर्दः, रते सम्भोगे, रतेन सम्भोगेन वा, यो विमर्दो
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org