SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ श्री श्रीवल्लभीय- लघुकृति - समुच्चयः ७८ न्वै अतीतं तीतं अपिधानं पिधानमित्यादि स्युरन्येप्याह इति गणत्वादिति । एवम् अपीत्यस्य यथा अकारलोपस् तथा अप इत्यस्यापि अकारलोपात् पापमिति सिद्धम्। का कर्तृ लघु शीघ्रं नतिमति प्रणामवति किम् उत्कटम् उद्धरं किं करोति ? इति प्रश्ने, उत्तरं वीराज्ञाविनुदतिपापम् महावीरतीर्थङ्करस्य आज्ञा विनुदति - प्रेरयति पापमिति प्रकटोऽर्थः । शृङ्खलाजातिः ॥ ६ ॥ ची रा ज्ञा वि - दृष्ट्वा राहुमुखग्रस्यमानमिन्दुं किमाह तद्दयिता ? | असुमेति पदं कीदृक् कामं लक्ष्मीं च बोधयति ? ॥ ७ ॥ है। ति पा प ॥ अवतमसम् ॥ व्याख्या: दृष्ट्वेति । इन्दुं चन्द्रमसं दृष्ट्वा विलोक्य तद्दयिता तस्य इन्दोर्दयिता=पत्नी तद्दयिता रोहिणी किमाह किं कथयति ? कथं भूतम् इन्दुं ? राहुमुखग्रस्यमानं राहोर्मुखं राहुमुखं तेन ग्रस्यमानः = भुज्यमान यः स तथा तं, ग्रसु ग्लसु अदने [पा. धा. ६७०, ६७१] भ्वादिरात्मनेपदी, इति प्रश्ने, उत्तरम्— अवतमसम् अवत- रक्षत मसम् = चन्द्रम् अस् प्रत्ययान्तोऽयम् । यदाह श्रीधरः - माः सुधा दीधितौ मासे [ विश्वलोचन सद्वितीय-८ ] इति । मसौ मसः एवं रूपाणि चन्द्रमस् शब्दवत्। ------ Jain Education International असुमेति पदं कीदृक् ? असुमेति चतुरक्षरात्मकं असुमेति पदं निर्विभक्तिं कं यत्पदं शब्दः पदं शब्दे च वाक्ये चेति मसं । कीदृक् ? कामं कन्दर्पम्, चः अनुक्तसमुच्चये, लक्ष्मीं नारायणस्त्रियं बोधयति सम्बोधयति इत्यर्थः। इति प्रश्ने, उत्तरम् - अवतमसम् असुमेति एषां चतुर्णां भिन्नस्वर-व्यञ्जनानां विपर्ययात् मकारस्थैकादस्वरस्य तकारस्य तृतीयस्वरस्य च पृथक्करणं भवति । तत् समासश्चायं उश्च अश्च तश्च मश्च सश्च वतमसाः उकाराकारतकारमकारसकाराः । न विद्यन्ते वतमसा यत्र www.jainelibrary.org For Personal & Private Use Only
SR No.004049
Book TitleVallabhiya Laghukruti Samucchaya
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRander Road Jain Sangh
Publication Year2012
Total Pages188
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy