________________
प्रश्नोत्तरैकषष्टिशतकाव्यम्
यद्वा, उद्यानं प्रयोजनं वृत्तिसाध्यं फलम् इत्यर्थः, कीदृग् न स्यात् ? इति प्रश्ने, उत्तरं - हे ज्ञ! आवि अवति हिनस्तीत्येवं शीलं आविः । हिंसकं=मारकं इत्यर्थः, न स्यात् ।
अहो, इत्यव्ययं प्रश्ने आश्चर्ये वा । जलधिजलं समुद्रपानीयं कीदृशं गम्यम् गमनयोग्यं उल्लङ्घनयोग्यमित्यर्थः न स्यात् ? इति प्रश्ने, उत्तरं - विनु विगता नावौ - बेडा यस्मात्तत् विनु, बेडारहितम् ।
७७
कृष्णः श्रीनारायणः आह- कथयति, मां को वक्ति स्तोष्यतीत्यर्थः स्तवनस्यापि मौनादोष्ठयोरस्फुरणत्वाद्वा वचनपूर्वकत्वात् ? इति प्रश्ने उत्तरं - नुद हे अ! कृष्ण ! नुत् णु स्तुतौ [ पा. धा. १११०] अदादिः परस्मैपदी, नौति=स्तौतीति, क्विपि तुकि च नुत्, स्तोता = सेवकः यस्त्वां स्तौति स त्वां समीहितं देहीत्यादि विज्ञप्तिं कथयतीत्यर्थः ।
क्व सति पटुवचः स्यात् कस्मिन् विद्यमाने पटु-प्रकटं वक्तीत्यचि पटुवचः=प्रकटकथकः स्यात् ? इति प्रश्ने, उत्तरं - दति दन्ते विद्यमाने दतीत्यत्र जातावेकवचनम्, जात्याख्यायामेकस्मिन् बहुवचनमन्यतरस्यामिति । पद्दन्नोमा. [पा. सू. ६/१/६३] इति सूत्रेण दन्तस्य वैकल्पिकददादेशे दतीति । उतः=उकारस्य केन इति प्रत्ययेन वृद्धिः स्यात् ? इति प्रश्ने उत्तरं - तिपा लटि तिप्प्रत्ययेन उतो वृद्धिर्लुकि हलि [पा. सू. ७ / ३ / ८९ ] इति अदादौ गणसूत्रेण अदादौ गणे उकारान्तधातूनां नौति स्तौति यौति इत्यादिवत् ।
तडागं सरोवरं कीदृक् त्याज्यम् ? इति प्रश्ने, उत्तरं - पापम् अपगताः आपः पानीयानि यस्मात्तत् पापम् । वष्टिभागुरिरल्लोपमवाप्योरुपसर्गयोः [पा. अव्ययप्रकरणवृत्त्याम् ] इति । अत्र अवाप्योरिति षष्ठी द्विवचनमुपलक्षणं, तेन अन्यस्याप्युपसर्गे चाद्यव्यय स्वरस्य लोपं षष्ठीत्यर्थं । तथा च बुद्धिसागरव्याकरणं चादेरंश: [ १ / २ / ५३ सूत्र की व्याख्या ] चादेरेव अंशः स्वरलक्षणो हलि परे इत् लोपः स्यात् । तु वै त्वै नुवै 5बी पत्रांके खण्डितकोणके निम्नलिखितपाठोऽस्ति तत्पाठस्तु खण्डितत्वात् टिप्पण्यां प्रदर्शितः.दि............. वक्तव्यात् । व्यन्तरोपसर्गे भ... प ईटिति ईकारा भ .... वे । अप्रययश्च ननु अपारपमितिसिद्धौ रापमित्यत्र अकारलोपः कथं ? अवाप्योरेव उपसर्गयोः वष्टिभागुरिरल्लोपमवाप्योरुपसर्गयोरित्यनेन भागुरि .
न.......
I
For Personal & Private Use Only
Jain Education International
·
www.jainelibrary.org