________________
७६
श्रीश्रीवल्लभीय-लघुकृति-समुच्चयः वीरा:- राज्ञा विशिष्टा इरा-वाक् येषां ते वीराः। वाग्मिनः-वादिनः । राजा इव राजा=गुरुस्तेन सह इत्यर्थः ॥ ४॥
विद्वान् पण्डितः आह कथयति-उद्यानं कीदृक् न स्यात्? पुष्पादिमवृक्षसंकुलम् उत्सवादौ बहुजनभोग्यं राज्ञा लोकैः सह साधारणं वनम् उद्यानं कीदृशं न भवेत् ? इति प्रश्ने, उत्तरं- ज्ञाऽवि हे ज्ञ!- पण्डित! अवि=न विद्यन्ते वयः पक्षिणो यत्र तत् अविः पक्षिभी रहितं न भवेत्, सपक्षिभवेदित्यर्थः।
ननु एवं सति विशब्दस्य पुँल्लिङ्गत्वात् पक्षिग्रहणे पक्षिणीनामग्रहणात् पक्षिभिः सहितं पक्षिणीभी रहितमेव उद्यानं स्यादित्ययमर्थः । स चोद्यानयुक्तो यत्र पक्षिणस्तत्र पक्षिण्योऽपि भवन्त्येव, पक्षिसद्भावे पक्षिणीनां निषेधो भवति, नैवम्, एकशेषाद् भविष्यति, एकशेषे तत्रायमर्थः-वयश्च पुंपक्षिणः, व्यश्चस्त्रिपक्षिण्यः, पुमान् स्त्रिया [पा. सू. १/२/६७] इति पुंशेषे वयः । न विद्यन्ते वयः-पक्षिणः पक्षिण्यश्च यस्मिंस्तत्। अवि-पक्षिपक्षिणीरहितं न स्यादित्ययमों युक्तः। स्त्रियां वि इति सुभूतिचन्द्रः। ब्रूञ् व्यक्तायां वाचि [पा. धा. ११२८] ब्रुवः पञ्चानाभादितः आहो ब्रुवः [पा. सू. ३/४/८४] इति लटि तिपो णलादेशे ब्रूइत्यस्य आहादेशे च आहेति रूपम् । उद्यानं स्वयमपरैः समं च लोकैः इति हलायुधः [ ]।
यद्वा, विद्वान् ज्ञाता आह- उद्यानं कीदृक् न स्यात् ? उद्यानंनिस्सरणं, तच्च पुत्रादेः सेवकादेश्च स्वकुलादेः स्वस्वाम्यादेश्च रोषाधुद्भवम्? इति प्रश्ने, उत्तरं- ज्ञावि, हे ज्ञ!=ज्ञातः अवि रक्षणगतिकान्तिप्रीतितृप्त्यवगमप्रवेशश्रवणस्वाम्यर्थयाचनक्रियेच्छादीप्त्यवाप्त्यालिङ्गनहिंसादानभागवृद्धिषु। [पा. धा. ६३९] एकोनविंशतावर्थेषु भ्वादि परस्मैपदी। अवतीत्येवं शीलं ताच्छीलिके [पा. सू. ३/२/१२९] इति णिनि, अवि-रक्षकं शोभकं प्रीतिकरं वा स्यात्। विद्वानात्मविदि-प्राज्ञे पण्डिते चाभिधेयवत् इति महेश्वरः [विश्वप्रकाश स-त्रिकम्-२५] । ज्ञः पण्डिते बुधे वेधसि इति श्रीधरः [विश्वलोचन जान्त वर्ग-१] उद्यानं क्लीबमाक्रीडे निःसृतौ च प्रयोजने इति श्रीधरः [विश्वलोचन-न-तृतीय ४४] ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org