________________
प्रश्नोत्तरैकषष्टिशतकाव्यम्
विद्वान् पण्डितः आह ब्रवीति-उद्यानं पुष्पादिमवृक्षसंकुलम् उत्सवादौ बहुजनभोग्यं राज्ञा लोकैः सह साधारणं वनं कीदृक् न स्यात् ? इति प्रश्ने, उत्तरं- ज्ञाऽवि हे ज्ञ!-पण्डितः ! अविः न विद्यन्ते वयः पक्षिणो यत्र तत् अविः पक्षिभी रहितं न भवति, सपक्षि भवतीत्यर्थः । य ... पुंपक्षिणश्च पक्षिण्यः पुमा- या इति पुंसि वयः न विद्यन्ते वयः पक्षिणः पक्षिण्यश्च तस्मिंस्तत् अविः पक्षि-पक्षिणीरहितं भवति। ब्रूञ् व्यक्तायां वाचि। [पा. धा. १११९] अदादिरुभयपदी। ब्रुवः पञ्चानामादितः आहो ब्रुवः [पा. सू. ३/४/८४] इति लटि तिपो णलादेशे ब्रू इत्यस्य आहादेशे च आहेति रूपम्। उद्यानं स्वयमपरैः समं च लोकैः इति हलायुधः [ ] ज्ञः पण्डिते बुधे वेधसि इति श्रीधरः [विश्वलोचन-बैकम्-१]
यद्वा, केन जेत्रा उत्कर्षप्रापणस्वभावेन सह, सह विनापि तद्योगेन इति वचनात् [
]। सह प्रयोगाभावेऽपि सहयोगे। तृतीया व्याख्यानात् । रणशिरसि-सङ्ग्रामसेनाग्रभागे के जिताः उत्कर्ष प्राप्ताः? इति प्रश्ने, उत्तरं- हे वी! वीराः राज्ञा, हे वी! ब्रह्मस्मरौ वीराः सुभटाः राज्ञा-भूपेन सह सङ्ग्रामे हि स्वामिना सह सुभटा उत्कर्षं प्राप्नुवन्ति, नाऽन्ये कातरादय इति। अत्र जि जये [पा. धा. ६००] अकर्मकः । जयः उत्कर्षप्राप्तिः, अस्मात् क्ते तृनि च प्रत्यये जितजेतृशब्दौ सिद्धौ। जेत्रा-राज्ञा अत्रोभयत्र विनापि तद्योगेनेति वचनात्। [ ] सह प्रयोगाभावेऽपि तृतीया॥ २ ॥
अथवा केन जेत्रा न्यूनीकरणस्वाभेन कर्ता कर्तृकरणयोस्तृतीया [पा. सू. २/३/१८] इति कर्तरि तृतीया। रणशब्दः, अर्थात् संस्कृतशब्दोद्धाररूपः। शिर:=प्रधानं यस्मिन् सः रणशिरः । यद्वा, रणः शब्दः संस्कृतशब्दोच्चाररूप एव, शिर:=सेनाग्र भागो रणशिरः। अर्थात् वादिप्रतिवादिनोर्वादः तस्मिन् रणशिरसि वादविषये के जिता:= न्यूनीकृताः? इति प्रश्ने, उत्तरं- वी वीरा:- राज्ञा, हे वी! ब्रह्मस्मरौ विरुद्धा इरा-वाक् येषां ते वीराः, प्रतिवादिन इत्यर्थः । राज्ञा राजा इव राजा प्रतिवादिद्विषज्जेतृत्वात् वादी तेन राज्ञावादिना ॥ ३ ॥
अथवा, केन जेत्रा उत्कर्षप्रापणस्वभावेन सह रणशिरसि प्राग वदर्थविधानात् वादे के जिता उत्कर्ष प्राप्ताः? इति प्रश्ने, उत्तरं- हे वी?
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org