________________
७४
श्रीश्रीवल्लभीय-लघुकृति-समुच्चयः धातुपारायणं [
] इति वत्। शतृप्रत्यये विलसच्छब्दोऽपि तत्परीभवदित्यस्य पर्यायः, न लसो अलसः अतत्परः।
प्रायो बाहुल्येन नकुलकुलसंकुलभुवि नकुलानां कुलं सजातीयसमूहः कुलानि बिलरूपाणि गृहाणि वा तेन तैर्वा संकुला व्याप्ता या भूः=भूमिः तस्यां नकुलकुलसंकुलभुवि। अहिसमूहः सर्पसंघातः कीदृग्? इति प्रश्ने, उत्तरंबिलसदनरतः बिलानि छिद्राण्येव सदनानि=गृहाणि तेषु रतः=आसक्तो यः स तथा मन्दिरं-सदनं स ति। द्विःसमस्तजातिः॥ ५॥ . ब्रूतो ब्रह्मस्मरौ के रणशिरसि जिताः? केन जेत्राह विद्वानुद्यानं स्यान्न कीदृग् ? जलधिजलमहो! कीदृशं स्यान्न गम्यम् ?। को मां वक्त्याह कृष्णः? क्व सति पटुवचः ? स्यादुतः केन वृद्धिस्त्याज्यं कीदृक् तडागं ? नतिमति लघु का किं करोत्युत्कटं किम् ?॥६॥
॥ वीराज्ञाविनुदतिपापम्॥ शृङ्खलाजातिः॥ व्याख्या:- ब्रूतो ब्रह्मेति। ब्रह्मस्मरौ विधातृकन्दो ब्रूतः कथयत:केन जेत्रा जयनस्वभावेन न्यूनीकरणभावेन रणशिरसि रणे सङ्ग्रामे शिर:तेनाग्रभागः रणशिरः तस्मिन्, के जिताः पराभूताः शिरो मूर्धन्प्रधानयोः सेनाऽग्रभागे इति । इति प्रश्ने, उत्तरं- हे वी! वीरा राज्ञा उश्च ब्रह्मा इश्चकाम इति इतरेतरयोगद्वन्द्वे इकोयणचि [पा. सू. ६/१/७७] इति यणि वी, तयोः सम्बोधने, हे वी! ब्रह्मकन्दौ वीराः सुभटाः राज्ञा= भूपेन? उकारस्तु भवेद् ब्रह्मा [ ] । वी इत्यत्र पञ्चमस्वरं षष्ठस्वरो वा एकाक्षरकोषेषु ब्रह्मणो नाम्नोऽदर्शनादपि एकमूर्तिस्त्रयो देवा ब्रह्म विष्णुमहेश्वरा इति [ ] पुराणवचनात् । त्रयाणामैक्यात्। उः समुद्रे ( सम्बुद्धौ ) रोषोक्तौ शिववाचीत्व नव्ययम् इति [विश्व. अनेकार्थअव्यय-४] महेश्वरवचनात् महादेवपर्याय उशब्दो। ब्रह्मपर्यायो निश्चेष्टः जिताः जेत्रा इत्युभयं जि अभिभवे [पा. धा. १०१२] अभिभवो न्यूनीकरणं भ्वादिः परस्मैपदी सकर्मकः इत्यस्मात् क्तप्रत्यय शीलार्थे तृन् प्रत्ययाभ्यां सिद्धं ज्ञेयम् । यदाह देवःजयिर्जयाभिभवयोराद्येऽर्थे ऽसावकर्मकः उत्कर्षप्राप्ति राद्योऽर्थो, द्वितीयेऽर्थे सकर्मकः इति। [ ]
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org