________________
प्रश्नोत्तरैकषष्टिशतकाव्यम्
७३
वैशिष्ट्यमिति तट्टीका इति प्रश्ने, उत्तरम् - अपरागमनसां अपगतौ रागौ विषयाभिलाषात्त्विकोऽनुरागो वा यस्मात् तत् अपरागम्, एवंविधं मनो येषां ते अपरागमनसस्तेषां । रागोऽनुरक्तौ मात्सर्ये क्लेशादौ लोहितादिषु इति महेश्वरः [विश्वप्रकाश ग-द्विकम् - ९] क्लेशा = अविद्यादयः, यदाह - अविद्या स्मृतः रागद्वेषाभिनिवेशा: क्लेशाः । आदिशब्दाद् विषयाभिलाषादि ॥ द्विर्व्यस्तसमस्तजातिः ॥ ४॥
प्रभविष्णुविष्णुजिष्णुनि युद्धे कर्णस्य कीदृगभिसन्धि: ? । नकुलकुलसङ्कुलभुवि प्रायः स्यात्कीदृगहिनिवहः ? ॥ ५ ॥ ॥ विलसदनरतः ॥ [ द्विः समस्तजाति: ]
व्याख्या:- प्रभविष्णु इति । युद्धे सङ्ग्रामविषये कर्णस्य कर्णनाम्नो राज्ञः कीदृक् अभिसन्धिः ? प्रतिज्ञासु अभिमुखः = अभिमुखः सन्धिरेकत्वं मिथो=मेल इत्यर्थः अभिसन्धिः, कुगति प्रादयः [पा. सू. २२१८] इति समासः । युद्धार्थं मिथो मेल:, सन्धिविग्रह- राज्यानां विग्रहो यानमासनं द्वैधमाश्रयः षड्गुणा: [ ] इति वचनात् । राज्यषड्गुणमध्ये सन्धिः प्रथमो गुणः ।
कथं भूते युद्धे ? प्रभविष्णुविष्णुजिष्णुनि विष्णुश्च =नारायणः जिष्णुश्च अर्जुन: द्वाभ्यामितरेतरयोगद्वन्द्वे विष्णुजिष्णू, प्रभविष्णू= ईश्वरभवनशीलौ विष्णुजिष्णू यस्मिंस्तत् तस्मिन् प्रभविष्णुजिष्णुनि । ऐश्वर्यार्थोऽत्र प्रोपसर्गः, तद्योगे भूधातुः ईश्वरार्थः - यथा प्रभुर्देशस्य तथा प्रभविष्णुरपि, इति प्रश्ने, उत्तरं - विलसदनरतः । अत्र च नारायणः नरश्च = अर्जुनः द्वाभ्यामितरेतरयोगद्वन्द्वे अनरौ । नरोऽजे मानवेऽर्जुने इति विश्वः [विश्वप्रकाश र-द्विकम् - ५] विलसन्तौ इव - ओजस्वि - तेजस्वि - वर्चस्वित्वादिगुणैः क्रीडन्तौ इव, संग्रामादिकेषु कर्मसु श्लिष्यन्तो वा समादधतौ तत्परीभवन्तौ रतौ इति यावत्, अनयौ अनरौ तौ विलसदनरौ तौ कर्मतापन्नौ तस्यतिम् = उपक्षयं नयति यः सः विलसदनरतः । तसु उपक्षये [पा. धा. १२८९] दिवादिः परस्मैपदी क्विप् डप्रत्यो वा, लस श्लेषणक्रीडनयोः [पा. धा. ७५९] परस्मैपदी अचि लसः, कर्मसु श्लिष्टः समाहित इति यावत् इति
Jain Education International
=
For Personal & Private Use Only
www.jainelibrary.org