________________
७२
श्रीश्रीवल्लभीय-लघुकृति-समुच्चयः कीदृक् पुष्पमलिव्रजो न भजते ? वर्षासु केषां गतिर्न स्यादध्वनि? कं श्रितश्च कुरुते कोकं सशोकं रविः?। लङ्केशस्य किल स्वसारमकरोद्रामानुजः कीदृशीं ?, केषां वा न मनो मुदे मृगदृशः शृङ्गारलीलास्पृशः?॥ ४॥
॥ अपरागमनसाम्॥ [द्विळस्तसमस्तजातिः ॥ व्याख्याः- कीदृक् पुष्पमिति। अलिव्रजः भ्रमरनिकरः, कीदृक् पुष्पं कीदृशं फुल्लं न भजते न सेवते? इति प्रश्ने, उत्तरम्- अपरागं न विद्यते पराग:=पुष्परजो यस्मिन् तदपरागं, पुष्परजो रहितमित्यर्थः । परागः पुष्परजसि इति श्रीधरः [विश्वलोचन कोष-ग-तृतीय-४६] ।
वर्षासु वर्षाकाले अध्वनि मार्गे केषां गतिः गमनं न स्यात् ? इति प्रश्ने उत्तरम्- अनसां शकटानाम्।
__ रविः सूर्यः कं श्रितः आश्रितः सन् कोकं चक्रवाकं सशोकं चक्रवाकीवियोगसहितं कुरुते? इति प्रश्ने, उत्तरम्- अपरागम् अपरस्यां पश्चिमायां दिशि यो अग=:पर्वतः सः अपरागस्तं, अस्ताचलमित्यर्थः ।
किल इति वार्तायां, रामानुजः बलभद्रः लङ्केशस्य रावणस्य स्वसारं भगिनी कीदृशीम् अकरोत् ? इति प्रश्ने, उत्तरम्- अनसां नास्ति नसा=नासिकाऽस्याः अनसा ताम् अनसां कृन्न नक्रामित्यर्थः । अत्र नसा शब्दः आबन्तः । मृगदृशः स्त्रियः केषां वा अव्ययमत्र निश्चये, मनो मुदे मनो हर्षा च न! कथं भूताः मृगदृशः? शृङ्गारलीलास्पृशः शृङ्गारश्च लीला च स्थानवैशिष्ट्यं शृङ्गारलीले ते स्पृशन्ति भजन्ते इति यावत् शृङ्गारलीलास्पृशः। यद्वा शृङ्गारेण लीलां=शृङ्गारप्रभावप्रभवां कायिकी क्रियां प्रियस्यानुकृतिरूपां स्पृशन्तीति शृङ्गारलीलास्पृशः । प्रियस्याऽनुकृतिर्लीलः श्लिष्टावाग्वेषचेष्टिते इति भरतः [ ]। यद्वा, शृङ्गार एव लीला-क्रीडा शृङ्गारलीला, शृङ्गारसहिता लीला क्रीडा शृङ्गारलीला, सर्वदा शृङ्गारोपेतत्वात् । शाकपार्थिवादिवत् [पा. वा. १७८] मध्यपदलोपिसमासः। इति वा, तां स्पृशन्तीति शृङ्गारलीलास्पृशः । लीलाकेलिर्विलासश्च शृङ्गारभावजक्रिया इति हैमानेकार्थः [अनेका. २/५२०] केलि: क्रीडा विलासः स्थानादिनां
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org