________________
प्रश्नोत्तरैकषष्टिशतकाव्यम् इत्यर्थः। जिनोऽर्हद्बुद्धविष्णुषु इति हैमानेकार्थः [अनेकार्थ. २/२६९] । एकव्यस्तसमस्तजातिः ॥ २॥ सश्रीकं यः कुरुते स कीदृगित्याह जलचरविशेषः?। अप्सु ब्रुडन् किमिच्छति? कीदृक्कामी? च किं वाञ्छेत् ?॥३॥
॥ समुद्रतरणम्॥ एकव्यस्तसमस्तजातिः॥ व्याख्याः- जलचरविशेष इत्याह। जलचरा: जलजन्तवो मत्स्यादयस्तेषां विशेषो भेदः जलचरविशेषः, इति कथयति। इतीति किं? यः सश्रीकं कुरुते, स कीदृक् ? सह श्रिया लक्ष्म्या वर्तते इति सश्रीक: नवृतश्च [पा. सू. ५/४/१५३] इति समासान्तः कप्प्रत्ययस्तं विधत्ते।
स कीदृशः? इति प्रश्ने उत्तरं– समुद्र! हे उद्र ! हे जलचरविशेष! जलमार्जार ! मम्=सह मया लक्ष्म्या वर्तते इति समस्तं करोतीति तत्करोति तदाचष्टे [पा. वा. ४२६] इति णिचि क्विपि सम् लक्ष्मीसहितकर्ता, उद्रस्तुजलमार्जार [वैजयन्ती कोश ४/१/५४] इति। अप्सु पानीयेषु ब्रुडन्-निमज्जन् किमिच्छति। वाञ्छति इति प्रश्ने उत्तरं- तरणं-मज्जनं ब्रुडनमित्यर्थःल्लङ्घनं-प्लवनम्, तृ प्लवनतरणयोः प्लवनं मज्जनं तरणं [पा. धा. १०३८] उल्लङ्घनम् इति धातुपारायणम् [हैम. धा. ]।
नन्वत्र ब्रुडनं द्विधा। जलक्रीडादिचातुर्यात् सरोवापिकादि मार्गनदनद्यादिजलोल्लङ्घनवशात्। ब्रुडनम् अभीप्सितं स्वाभाविकम् ॥ १॥ रोषाधुपाधिवशात् सरोवापिकादिषु जलमध्ये पतनात् ब्रुडनम् औपाधिकम् ॥ २॥ तत्र यत्स्वाभाविकं ब्रुडनं तत्र अप्सु ब्रुडन् किमिच्छतीति प्रश्ने उत्तरंतरणम् उल्लङ्घनम् इत्यर्थः । यच्च औपाधिकं ब्रुडनम् तत्र अप्सु ब्रुडन् किमिच्छति? इति प्रश्ने, उत्तरं-तरणं प्लवनं मज्जनमित्यर्थः । एवं ब्रुडन् इत्यस्यार्थो द्विविधा विबुधैर्विधेय इति।
चः पुनरर्थे । कीदृक् कामी कामुकः किं वाञ्छेत् ? इति प्रश्ने उत्तरं– समुद्रतरणं सह मुदा-प्रीत्या वर्तते यः सः समुत् प्रीतिमान्, रते=मैथुने रणं युद्धं, रतं मैथुनमेव । रणं युद्धं रतरणं । यद्वा, रते सुरतस्य वा, यो रणशब्दो रतरणं तम्। अर्थात् .... सम्भोग .... क्लेश.... आर्या। द्वाभ्याम् ॥ एकव्यस्तसमस्तजातिः ॥ ३॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org