________________
श्री श्रीवल्लभीय- लघुकृति - समुच्चयः
कीदृग् सन् ? शिल्पिशिक्यदेहान्, शिल्पी च प्रकृतिः, 'कारू' इति लोकभाषाप्रसिद्धः, शिक्यं च 'छीका' इति लोकभाषाप्रसिद्धम्, देहश्च = शरीरमिति समाहारद्वन्द्वे शिल्पिशिक्यदेहास्तान् उदाहरति कथयति इति प्रश्ने उत्तरम् - अन्तरुचयः, रुश्च चश्च यश्च इति रुचयाः । अन्ते= अवसाने रुचया यस्य सः अन्तरुचयः । ततो यथाक्रमं कारु-काच- काय इति पृथक्-पृथक् निर्विभक्तिकाः त्रयः शब्दाः भवन्ति, ते चाऽनुक्रमेण शिल्पिशिक्यदेहान् कथयन्तीत्यर्थः ।
७०
=
ननु काध्वनय इति बहुवचने वक्तव्ये कथं काध्वनिंरित्येकवचनं भिन्नान्नां प्रश्नोत्तरशब्दानां त्रित्वात् ? ब्रूमः - एकस्य द्वितीयस्वरोपेतस्य का इत्यक्षर जात्यऽपेक्षया प्राधान्येन च एकत्वात् एकत्वमेव युक्तं, न त्रित्वम्, कार्यबहुत्वेऽपि कारणस्य ऐक्यात् । यथा- पितुः पुत्राः त्रिचतुरादयः इति वत् काध्वनिरित्यत्राप्येकत्वमेव । तथा कारु काच काय इत्यअर्थवदधातुरप्रत्ययः प्रातिपदिकम् [ पा. सू. १/२/४५] इति प्रातिपदिकत्वं अर्थमात्रैकत्वंविवक्षाया अभावात् प्रथमैकवचनसुबभावश्च एकवचनत्वं, तु, काध्वनिरित्यत्र प्रथमैकवचनस्य सिद्धत्वात् । रुकारान्तत्व- चकारान्ततत्व रयकारान्तव इति विशेषणत्वात् सिद्धमेव। ततः क्रमेण पृथक्-पृथक् प्रथमैकवचनान्तशब्दानां विधानात् । कारुः शिल्पिनं, काचः शिक्यं, काय: - देहमुदाहरतीति क्रियमाणपदं त्रिष्वपि योज्यम्। एवमन्यत्राऽप्यग्रे ज्ञेयम् । कारुस्तु कारी प्रकृतिः शिल्पी इति हैमकोषः । [ अभिधा. ३/५६३] शिक्यं काचः इत्यमरः [ अमर. २/१० / ३०] समवसृत्यवनौ=समवसरणभूमौ का: अरुचन्- आदीप्यन्त ? कथंभूताः का: ? भवाम्बुमध्यप्रपातिजनतोद्धृतिरज्जुरूपाः, भवः चतुर्गतिरूपः संसारः स एव अम्बुमध्यं - जलमध्यं तस्मिन् प्रपातिनी - पतनशीला या जनता=जनसमूहस्तस्या उद्धृतिः - उद्धारो नीचैर्बुडनादुच्चैरानयनमित्यर्थस्तस्यां रज्जूनां= रश्मीनां, 'रांढ्र' इत्यादि लोकभाषाप्रसिद्धानां रूपम् आकारो यासां तांस्तथा इति प्रश्ने उत्तरं - जिनदन्तरुचयः - तीर्थङ्करदन्तदीप्तयः, अथवा प्रश्नोत्तरग्रन्थानां सर्वदर्शन- साधारणत्वात् अर्थान्तरमेतत् । समन्तात् अव=निश्चयेन सृति=सरणं क्रीडया इतस्ततो गमनं यस्मिन् स समवसृतिः । अर्थात् नारायणस्य रासमहोत्सवः तस्याऽवनिः तस्यां समवसृत्यवना रासमहोत्सवभुवि का अरुचन् ? शेषं सर्वं पूर्ववत् । इति प्रश्ने उत्तरं - जिनदन्तरुचयः = नारायणदन्तदीप्तय
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org