SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ प्रश्नोत्तरैकषष्टिशतकाव्यम् ६९ कइ विहाणं भंते ओरालियसरीरा पण्णत्ता? गोयमा! दुविहा पण्णत्ता, तंजहा- मुक्केल्या य १ बद्धेल्लया य २ तत्थ णं जे ते बद्धेल्लया तेणं असंखेज्जा असंखेजाहि उसप्पिणि-ओस्सपिणीहिं अवहीरंति। कालओ खेत्तओ असंखेज्जा लोगा। तत्थ णं जे ते मुक्केलया ते अणंता। अणंताहिं उसप्पिणि - ओस्सपिणीहिं अवहीरंति कालओ, खेत्तओ अणंता लोगा, अभवसिद्धिएहि अणंतगुणासिद्धाण अणंतभागो। [अनु. सू. ४१३; प्रज्ञापना सूत्र ९१० ] अत्र वृत्तिः। एवं वैक्रियादीनां, चतुर्णामपि शरीराणां मुक्किलया य बद्धिल्लया य इत्येतावेव द्वौ द्वौ भेदौ ज्ञेयौ। एवं पञ्चानां शरीराणां दशप्रकारा अवसेयाः। इतिप्रथमश्लोकार्थः ॥ १॥ कीदृग्वपुस्तनुभृतामथ शिल्पिशिक्यदेहानुदाहरति काध्वनिरत्र कीदृग् ?। काश्चारुचन् समवसृत्यवनौ भवाम्बुमध्यप्रपातिजनतोद्धृतिरज्जुरूपाः?॥ २॥ ॥ जिनदन्तरुचयः॥ [ समस्तजातिः ॥ व्याख्याः- कीदृग्वपुरिति। तनुभृतां प्राणिना=एकेन्द्रियादिपञ्चेन्द्रियान्तानां वपुः=शरीरं कीदृग् भवतीति क्रियाध्याहारः, इति प्रश्ने उत्तरम्- जिनत् वयोहानिं गच्छत् भवतीति प्राग्वत् ज्या वयोहानो [पा. धा. १५९७] फ्यादिः, लक्षणहेत्वोः क्रियायाः इति शतरि, क्यादिभ्यः श्रा [पा. सू. ३/१/८३] इति श्नाप्रत्यये ग्रहिज्या [पा. सू. ६/१/१६] इत्यादिना यकारस्य इकारसम्प्रसारणे, हल [पा. सू. ३/३/१२१] इति तदन्ताङ्गस्य दीर्घत्वे कृते प्वादीनां ह्रस्वः [पा. सू. ७/३/८०] इति ह्रस्वे स्नाभ्यो तयोरातः [पा. सू. ६/४/११२] इति ना इत्यस्य आकारलोपे जिनत् इति सिद्धम्। अथ शब्दः प्रारम्भार्थोऽत्राऽव्ययं, ततोऽयमर्थः। प्रथमप्रश्नसमाप्तौ द्वितीयप्रश्नारम्भमथ शब्दो ज्ञापयतीति। एवं सर्वत्र अथ शब्दार्थोऽवधार्यः। अत्र इति अस्मिन्क्रियमाणलक्षणे प्रश्ने प्रश्नोत्तरग्रन्थे वा काध्वनिः का इति दीर्घाकारो निर्विभक्तिकः। का एव ध्वनिः काध्वनिः, काशब्दः । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004049
Book TitleVallabhiya Laghukruti Samucchaya
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRander Road Jain Sangh
Publication Year2012
Total Pages188
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy