________________
श्री श्रीवल्लभीय- लघुकृति - समुच्चयः
क्रमनखदशकोटीदीप्रदीप्तिप्रतानैः दशविधतनुभाजाम् उज्ज्वलं
..समासः,
मोक्षमार्गं पृथगिव विदिशन्तं । क्रमयोश्चरणयोर्नखाः क्रमनखास्त एव दश, दश इति नाम्नी संख्या, विशेषण.. तेषां । कोट्या=उत्कर्षेण दीप्रा = दीपनशीलाः याः दीप्तयः - तेजांसि, 'झिगझिग इति' लोकभाषाप्रसिद्धाः, तासां प्रताना:- विस्तारास्ते तथा स्यात् कोटिरस्त्रौ चापाग्रे संख्याभेदप्रकर्षयोः [विश्वप्रकाश ट-द्विकम् - २७] इति महेश्वरः । यद्वा दशकोट्य इव दशकोट्यः, अत्युत्कटतेजस्वित्वात् दशकोटितुल्याः । ततो द्वाभ्यां कर्मधारये, अंत एव दीप्रा - दीपनस्वभावाः या दीप्तयस्तासां प्रताना: दशकोटीदीप्रदीप्तिप्रतानाः, क्रमनखानां दशकोटिदीप्रदीप्तिप्रतानाः, क्रमनखदशकोटीदीप्रदीप्तिप्रतानास्तैः करणभूतैः तनव:-पञ्चदशविधाः- प्रकाराः । मुक्तबद्धेति लक्षणभेदद्वयात् यासां ताः दशविधाः, दशविधाः यास्तनव:, औदारिक १ वैक्रिय २ आहारक ३ तेजस् ४ कार्मण ५ लक्षणा: पञ्चदशविधतनवस्ता भजन्तीति दशविधतनुभाजः, भजो ण्विः (पा.सू.३/२/६२) इति ण्विः, सुरासुरनरादयः प्राणिनस्तेषाद्गञ्च । उज्वलं= निर्मलं मोक्षमार्गं पृथगिव = भिन्न-भिन्नमिव विदिशन्तं = प्रयच्छन्तम् । दिश अतिसर्जने (पा. धा. १३६७) तुदादिरुभयपदी दानार्थोऽत्र। यदाहविजयानन्दः - ददते ददाति दिशति च । विश्राणयति प्रयच्छति च । उत्सर्जति राति वितरत्यर्पयति इति स्मृता दाने ॥ १ ॥ इति
६८
औदारिकादिशरीरपञ्चकस्य प्रतीकं मुक्केल्लया बद्धेल्लया इति लक्षणः मुक्किल्लया बद्धिल्लया इत्येके, प्राकृतत्वात् स्वार्थे कश्च वा इति [ हैम. प्राकृतव्याकरण २/१६४] प्राकृतसूत्रेण चकारात् स्वार्थिके सोडिल्लौ प्रत्ययौ भवत इति । डिल्लडुल्लौभवे [ हैम. प्राकृत व्याकरण २ / १६३] डिदिल्लप्रत्यये साधू, ततो मुक्किल्लया इति मुक्तानीत्यर्थः बद्धिल्लया इति बद्धानीत्यर्थः । द्वि द्विभेदग्रहणात् दशभेदास्ते च श्री प्रज्ञापना- श्यअनुयोगद्वारसूत्रवृत्तितोऽवसेया, अत्र तु पाठबाहुल्यात् ग्रन्थबाहुल्याच्च न लिखामः । तथाप्येकस्य भेदं लिखामः ।
तद्यथा
कइणं भंते सरीरा पण्णत्ता ? गोयमा ! पंचसरीरगा पण्णत्ता, तंजहा - ओरालिए १ वेउव्विए २ आहारए ३ तेजए ४ कम्मए ५ । [ अनु. सू. ४०५, प्रज्ञापना सृ. ९०१]
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org