________________
प्रश्नोत्तरैकषष्टिशतकाव्यम्
क्रमनखदशकोटीदीप्रदीप्तिप्रतानैदशविधतनुभाजामुज्ज्वलं मोक्षमार्गम्। पृथगिव विदिशन्तं पार्श्वमानम्य सम्यक्, कतिचिदबुधबुद्धयै वच्यहं प्रश्रभेदान्॥ १॥
व्याख्याः- क्रमनखेति। अहं श्रीजिनवल्लभसूरिः कतिचित् का संख्या एषामिति, कति। किमः संख्यापरिमाणे [पा. सू. ५/२/४१] डति चेति डतिप्रत्ययः। तान् कति? अज्ञातान् कतीति कतिचित्-कियतोऽपि। प्रश्नभेदान् प्रश्नप्रकारान् वच्मि कथयामीत्यर्थः, इत्यन्वयः। किमर्थे ? अबुधबुद्धयै, न बुधाः अबुधाः=अनधीतप्रश्नोत्तर ग्रन्थाः, अधीतापरव्याकरणाद्यनेकग्रन्थाः, पण्डितसदृशा इत्यर्थः। अत्र नञः पर्युदासार्थस्य ग्रहणात्। तथा च तल्लक्षणं
द्वौ नौ हि समाख्यातौ पर्युदासप्रसज्यतौ। पर्युदासः सदृग्ग्राही प्रसज्यस्तु निषेधकृत्॥ [ ]
न ब्राह्मणो अब्राह्मणः= ब्राह्मणसदृशः क्षत्रियादिरित्यर्थः । अब्राह्मणशब्दवत् अबुधशब्दोऽपीत्यर्थः । अबुधानां बुद्धि: अबुधबुद्धिस्तस्यै। तादर्थ्य चतुर्थी वाच्येति वक्तव्यात् तादर्थ्य चतुर्थी अथवा नजो निषेधार्थत्वात्। न बुधाः अबुधाः अपण्डिताः= [पा. वा. १४६] सर्वथाऽनधीतशास्त्राः मूर्खा इत्यर्थः । यद्वा नब ईषदर्थत्वात् न ईषद्बुधाः । अबुधाः ईषत्पण्डिताः अधीताऽनेकशास्त्रा अपि। अल्पबुद्धित्वादसंस्फुरबुद्धयस्तेषां बुद्ध्यै अबुधबुद्ध्यै। अनेन पदेन एतद्ग्रन्थाध्ययनश्रवणादिना मूर्खा: ईषबुद्धयश्च ये ते प्रभूताद्भुतप्रबुद्धबुद्धयो भवन्तीत्येतस्य माहात्म्यमावेदितं। अथवा अनेन पदेन श्रीजिनवल्लभसूरिः स्वगर्वाऽपहारमकरोत् ॥ तादर्थ्य चतुर्थी वाच्येति [पा. वा. १४६] वक्तव्यात् तादर्थ्य चतुर्थी। किं कृत्वा? पार्श्व श्रीपार्श्वनाथं जिनं सम्यक्सत्यं यथास्यात्तथा आनम्य-प्रणम्य। आडो[दौ] भक्तिवशश्रद्धा वातिशयलक्षणप्रकर्षस्य द्योतनात्। सत्यं सम्यक्समीचीनमिति हेमकोषः [अभि. २/१९८] । किंकुर्वन्तं श्रीपार्श्वम्? उज्ज्वलं निर्मलं मोक्षमार्ग पृथगिव भिन्न-भिन्नमिव विदिशन्तं प्रयच्छन्तम्।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org