________________
॥ ॐ ह्रीँ अर्हं नमः ॥ ॥ श्रीजिनमणिसागरसूरिभ्यो नमः ॥
पूज्याचार्यश्रीजिनवल्लभसूरिपादैर्विरचितं प्रश्नोत्तरैकषष्टिशतकाव्यम्
श्री श्रीवल्लभोपाध्यायप्रणीतटीकया संवलितम्
॥ र्द०॥ एँ नमः॥
श्री शान्तिस्तनुतात्सुखानि सततं श्रीः शाश्वतीश्चादरात्, नव्यग्रन्थविधानतत्परपरप्रज्ञावतां धीमताम् ॥ सर्वप्राणिगणस्य चाऽद्भुतगुणैः पुंवृन्दमध्याग्रणीर्, मेघानाम घदुःखहारि सुखकृत्सत्पुष्करावर्तवत् ॥ १ ॥
जिनवल्लभसूरीन्द्रो गणे खरतरे प्रभुः । प्रश्नोत्तरषष्टिशतग्रन्थं जग्रन्थ सत्पथः ॥ २ ॥
तस्य टीकां करोत्येष श्रीश्रीवल्लभवाचकः । व्याकरणादिशास्त्राणि दर्श दर्शमनेकशः ॥ ३ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org