________________
श्री शान्तिनाथ-विषमार्थस्तुतिः आयमसनस्तम् । पुनः किम्विशिष्टं वारणम् ? 'मायासमम्' मा मरणं तस्य आयासः खेदः=तं मनातीति सम्यग्दृष्टित्वात् मायासमस्तम्। 'मा स्त्री माने मृतौ' [नानार्थरत्नमाला एकाक्षरकाण्ड ५४] इति इरुगपदोक्तेः। पुनः किम्विशिष्टं वारणम् ? 'मोसमम्' मा बुद्धिः उ:-रक्षा ताभ्यां समः-साधुरिति मोसमस्तम् । ‘मा स्त्री माने मृतौ वेला मेधा' [नानार्थरत्नमाला एकाक्षरकाण्ड ५४] इति वचनप्रामाण्यात् ।। ४।।
इति श्रीशान्तिनाथविषमार्थस्तुतिवृतिः समर्थिता। श्रीवल्लभकृति'रियम्। श्रीवल्लभेन गणिना अस्याः स्तुतेर्वृतिकृता।
व्यलेखि वा. सहदेवाय्र्यैः ।।
१. खऊरतरगच्छेऽभूम्।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org