________________
६४
श्रीश्रीवल्लभीय-लघुकृति-समुच्चयः अगरागरजकस्तम्। अयं हि मिथ्यादृष्टीनपि प्रतिबोधदानेन स्वामिधर्मे दृढीकरोतीत्यर्थः। पुनः किम्विशिष्टं वारणम् ? 'राणारणम्' रया समृद्ध्या धर्मरूपया णा:=प्रकटाः राणाः सम्यग्दृष्टि श्रावकाः तैः सह नास्ति रण: कलिर्यस्य स राणारणस्तम्। साधर्मिकत्वात्। पुनः किम्विशिष्टं वारणम् ? 'सर्गोत्सर्गकु मार्ग-मार्गमरणम् सर्ग-दानं वदतीति सगोत्सर्गोत्सर्ग: (सर्गः=उत्सर्गः-) स्वभावो यस्येति सर्गोत्सर्गः, कौ=पृथिव्यां मार्ग:=प्रस्तावाद् मोक्षमार्गस्तं मार्गयति-अन्वेषयतीति कुमार्गमार्गः प्रस्तावाच्चतुर्विधसङ्घः तस्य भरण-पोषणं यस्मिन् स कुमार्गमार्गभरणः, सर्गोत्सर्गश्चासौ कुमार्गमार्गभरणश्च सर्गोत्सर्गकुमार्गमार्गभरणस्तम्। पुनः किम्विशिष्टं वारणम् ? भाराभिभूतम्', भारःगुणानां प्राग्भारस्तम् अभि सामस्त्येन भूतः प्राप्तो भाराभिभूतस्तम्। पुनः किम्विशिष्टं वारणम् ? भणम्', भणति भणस्तं भणं वक्तारमित्यर्थः । पुनः किम्विशिष्टं वारणम् ? 'अमविकाशकासरसनम्' अम् गतौ 'भजने शब्दे' अजन्तणं। अमन्ति= भजन्तीति अमा:=सेवकास्तान् विकाशयति दीपयतीति अमविकाशकः, अ: अर्हन् श्रीशान्तिनाथजिनः । अः स्यादर्हति सिद्धे च [अपवर्गनाममाला द्वि. खं १५३] इत्युक्तेः । तत्र सा=प्रधानाः रसना-जिह्वास्य गुणग्रामग्रहणप्रवणत्वेनेति असरसनः, सं सुखं रसन कार्य प्रधानम् [एकाक्षर नाममाला ९४] इति सौभरि वचनात् । अमविकाशकश्चासौ असरसनश्चेति कर्मधारये अमविकाशकासरसनस्तम्। पुनः किंविशिष्टं वारणम् ? 'नासानसेसानसम्' 'षन सम्भक्तौ' [ ] घञि, सानः, नानाम्=नराणां आ सामस्त्येन सान: भक्तिर्यस्मिन् स नासानः, सा-लक्ष्मी: ई: कान्ति: 'ईल् दीप्तौ' [ ] क्विबन्तः, तयोः सानो दानं यस्य स सेसानः । सः सदानन्दे [एकाक्षरनाममालिका ११२] इति विश्वशम्भूक्तेः। नासानश्चासौ सेसानश्चासौ सश्चेति त्रयाणां कर्मधारये नासानसेसानसस्तम्। पुनः किम्विशिष्टं वारणम् ? 'आयविमायम्' आयेन सम्यक्त्वलाभेन विगता माया अनन्तानुबन्धिनी यस्मात् स आयविमायस्तम्। पुन: किंविशिष्टं वारणम् ? 'आयमसनम्' 'यम विरतौ' यमनं यमः आ समन्तात् यमो येषां ते आयमाः साधवः तान् सनति-सेवते इति १. मुद्रित संस्करणे 'शरणं'।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org