________________
श्री शान्तिनाथ-विषमार्थस्तुतिः
६३ कल्याणवाणवणं? सेनासमूहक्षणम्,-विकटकटकपेटकविध्वंसकम्। पुनः किम्विशिष्टं कल्याणवाणवणम्? 'उद्यानम्' उद-ऊर्ध्वं यानं गमनं स्वर्गापवर्गयोर्यस्मात् स उद्यानं तम्। पुनः किं विशिष्टं कल्याणवाणव्रणम् ? 'घानाम्'=पुण्यानां 'घो मन्त्रेऽन्यार्थवाचक: पुण्ये' [एकाक्षरनाममाला २८, २९] इति विश्वशम्भूक्तेः। घनं-निविडं सदनं-गृहम्। पुनः किम्विशिष्टं कल्याणवाणव्रणम् ? 'घनघनम्' घनः=मुद्गरस्तद्वत् घन: कठिनः कठिनार्थत्वात् घनघनस्तम्। 'घन: सान्द्रे दृढे दाढ्य विस्तारे मुद्गरे पुनः' [अनेकार्थसंग्रह २/२६५] इति अनेकार्थवचनात्। पुनः किं विशिष्टं कल्याणवाणव्रणम्? 'घनम्'-दृढं युक्तिभिरमेयं । पुनः किम्विशिष्टं कल्याणवाणवणम् ? 'कलम्' मनोज्ञं श्रवणार्हत्वात्। पुनः किम्विशिष्टं कल्याणवाणव्रणम् ? कचन्दनवनम् कान्येव सुखान्येव चन्दनानि कचन्दनानि तेषां वनमिव वनं यः स कचन्दनवनस्तम्। यथाहि वनेषु चन्दनानामुत्पत्तिर्भवति तथाऽत्रापि सुखोत्पत्तिः । पुनः किम्विशिष्टं कल्याणवाणवणम् ? 'सल्लाञ्छनं' सन्ति शोभनानि लाञ्छनानि वृषगजादीनि जिनानामुक्तानि सन्ति यत्र स सल्लाञ्छनस्तम्। पुनः किं विशिष्टं कल्याणवाणव्रणम् ? वाञ्छनं' वाञ्छ्यते इष्यते ज्ञानादिसाधनत्वेन मुक्त्यर्थिभिः इति वाञ्छनस्तम्।।३।। अथ तुरीये वरीयः श्रीमदाचिरेयसर्वीयशासनाधिष्ठायकगरुडयक्ष-स्तुतिमाह
प्रज्ञापूरपराऽगरागरजकं राणारणं वारणं, सर्गोत्सर्गकुमार्गमार्गभरणं भाराभिभूतं भणम्।
व्यासायाऽमविकाशकासरसनं नासानसेसानसं, कायाऽऽपाऽऽयविमायमायमसनं मायासमं मोसमम्।। ४।।
अस्य व्याख्या-हे प्रज्ञापूरपर! प्रज्ञाया:=बुद्ध्याः पूरो येभ्यस्तानि प्रज्ञापूराणि नानाविधशास्त्राणि तैः परः प्रधानो यः स प्रज्ञापूरपरस्तत्सम्बुद्धौ हे प्रज्ञापूरपर! हे चतुर्विधसङ्घ ! त्वं वारणम्'। वारयति सम्यग्दृष्टीन् क्षुद्रोपद्रवेभ्यः इति वारणस्तं वारणं श्रीशान्तिनाथशासनाधिष्ठायकं गरुडनामानं यक्षं कायन्सुखार्थं आप-प्राप्नुहि भजेत्यर्थः । किम्भूताय काय? 'व्यासाय' विस्तीर्णाय। किम्भूतं वारणम् ? 'अगरागरजकम्', 'अगुवक्रगतौ' [ ] अगयन्ति-कुटिले यान्तीति अगा: मिथ्यात्विनः तान् रागेण प्रस्तावाद् धर्मरागेण रजति जैनधर्मे रागी करोतीति
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org