________________
८१
प्रश्नोत्तरैकषष्टिशतकाव्यम्
आलिङ्गनादिना कुशलादिपृच्छार्थ इति विशेषार्थस्य अभावात् । सामान्यमूलार्थस्यैव द्योतकत्वात् परस्मैपदित्वं न दुष्टमिति । अपिरव्ययमत्र समुच्चये । एषः चक्रवाको भूमिं धरित्रीम् अप्राक्षीत्=अपृच्छत् ।
नु इति प्रश्ने, मादृशां क्व वासो निवासः इति चक्रवाकस्य प्रश्ने, उत्तरं - कोकनदे हे कोक ! = हे चक्रवाक ! नदे = ह्रदे| आर्या ॥ ९ ॥ हरिरतिरमा यूयं कान् किं कुरुध्वमदोऽक्षरं ?, किमपि वदति भेजे गीतश्रियाऽपि च कीदृशा ? । जिनमतजुषां का स्यादस्मिन् कियच्चिरमङ्गिनां ?, गतशुभधियां का स्यात् कुत्राभियोगविधायिनाम् ? ॥ १० ॥ ॥ यानताम स, समतानया, विभुता सदा, दासता भुवि ॥ मन्थानजातिः ॥
व्याख्या:
हरिरतीति । अदः अक्षरं प्रत्यक्षगतः कश्चन वर्ण इत्यर्थः । यद्वा, अदसः अदस्शब्दस्य अक्षरं वर्णो अदोऽक्षरं सकारलक्षणम्। अयं वर्ण: किमपि वदति कथयति — हे हरिरतिरमाः हरिश्च= नारायणः, रतिश्च = कन्दर्पस्त्री, रमा च= लक्ष्मीरिति समाहारद्वन्द्वे हरिरतिरमाः, तत्सम्बोधने हे हरिरतिरमाः ! यूयं कान् प्रति किं कुरुध्वं ? इति अमुना अक्षरेण अदः शब्दसम्बन्धिना अक्षरेण वा कृते प्रश्ने, उत्तरं - यान ताम स। अस्यार्थ :- हे स! सकार, अथवा हे अदशब्दस्य सकारः यान्, ई च ईश्च वा लक्ष्मी:, इश्च= कन्दर्पः, अश्च = कृष्णः । अकः सवर्णे दीर्घः [पा. सू. ६/१/१०१] इति दीर्घे, इको यणचि [पा. सू. ६/१/७७] इति यणि च, याः तान्, यान् लक्ष्मीकन्दर्पनारायणान् अताम सातत्येन गच्छाम । अत सातत्यगमने [पा. धा. ३८] भ्वादि: परस्मैपदी आशिषि लिङ्लोटौ [पा. सू. ३/३/१९३] इति मध्यमपुरुषस्य एकवचनम्। [सकारे अकार उच्चारणार्थः] अपीति सम्भावनायाम् ।
कीदृशा कीदृशया गीतश्रिया गीतस्य = गानस्य संगीतशास्त्रोक्तपदस्तु
श्रीः = शोभा गीतश्रीः तया भेजे अशोभ्यत, भावोक्तौ रूपम्, इति प्रश्ने, उत्तरं - समतानया समाः सदृशा:- साधवः, समस्ता वा ताना,
For Personal & Private Use Only
www.jainelibrary.org
...
-
Jain Education International