________________
८२
श्रीश्रीवल्लभीय-लघुकृति-समुच्चयः कालक्रियायामानस्य विस्तारो यस्यां सारामतानां तया। षड्जग्रामाश्रिताः अग्निष्टोमादय एकविंशतिर्यस्यां सा समताना तया। ता च भेदाः संगीतशास्त्रतो ज्ञेयाः। ते चामी-अग्निष्टोमो १, ऽत्यग्निष्टोमो २, वाजपेयो ३, ऽथ येयसी ४, पुण्डरीको ५, ऽश्वमेधश्च ६, राजसूयश्च ७ सप्तमः॥ कृबहुः ८, स्वर्णगौरश्वः ९, गोशतश्च १०, महाद्रत: ११॥ विश्वजिद् १२, ब्रह्मयज्ञश्च १३, प्राजापत्य १४, स्तथैव च। सूर्यक्रान्त १५, रजक्रान्तौ १६, इत्यादीनि।
___ जिनस्य मतं सन्मतं जिनमतम्। मतं पूजितं सन्मते (मू. सं. सन्धिते) इति महेश्वरः [विश्वप्रकाश त-द्विकम्-४] जुषी प्रीतिसेवनयोः [पा. धा. १३७२] तुदादिरात्मनेपदी, जिनमतं जुषन्ते सेवन्ते, क्विपि, जिनमतजुषस्तेषां जिनमतजुषाम्, अङ्गिनां प्राणिनां अस्मिन् मनुष्यलोके कियच्चिरं कियद्दीर्घकालं का स्याद् भवेद् ? चिरशब्दोऽत्र अकारान्तःक्लीबलिङ्गः। यदाह-चिरन्तनं [ ] इत्यत्र वामनः चिरशब्दस्यापि मकारान्तत्वं निपात्यते इति। तथा च श्री रामचन्द्राचार्योऽपि-चिरन्तनं प्राङ्केतनं प्रगेतनम् अनव्ययानामेषां मान्तत्वमेदन्तत्वं च निपात्यते इति। तथा च वार्तिकसूत्रमपि चिरपरुत्यरारिभ्यस्नो [पा. वार्तिक २५६] वक्तव्यः, अव्ययादाप सुप् [पा. सू. २/४/८२] इति। कालाध्वनो. [पा. सू. २/३/ ५] इति द्वितीया। चिरमिति मान्तमव्ययमपि, तदापि द्वितीयैव, अव्ययत्वाद् विभक्तेर्लुक्। कियद् इत्यत्र च अव्ययविशेषणस्य क्लीबत्वात् क्लीबत्वम्, इति प्रश्ने, उत्तरं- विभुता सदा विभुता=नायकत्वं, यद्वा विभुः=व्यापिका सर्वजनपरमोपकरणात्सर्वलोक-व्यापिका इत्यर्थः । नित्या वा, या ता-लक्ष्मी: सा, विभूता-सर्वजगत्व्यापिनी अविनाशिनीत्वात् नित्या वा सम्पदित्यर्थः । वोतो गुणवचना. [पा. सू. ४/१/४४] इति वैकल्पिके ङीष्-सद्भावे पुंवत्कर्मधारयजातीयदेशीयेषु [पा. सू. ६/३/४२] इति पुंवद्भावे, डीषोऽसद्भावे वा विभूतेति रूपसिद्धिः। सदा सर्वस्मिन्काले विभु प्रभौ व्यापके शङ्करे नित्ये। इति हैमानेकार्थः [अनेकार्थ २/३१५-१६] । लक्ष्मी: पद्मा रमा, या मा ता सा श्री: कमल . इति अभिधानचिन्तामणिः [अभिधा. २/१४०]
गतशुभधियां शुभकारिणी शुभधी:=बुद्धिः शाकपार्थिवादिवत् [पा. वार्तिक. १७८] मध्यपदलोपी समास: गता शुभधीर्येभ्यस्ते गतशुभधियः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org