Book Title: Vallabhiya Laghukruti Samucchaya
Author(s): Vinaysagar
Publisher: Rander Road Jain Sangh

View full book text
Previous | Next

Page 109
________________ श्रीश्रीवल्लभीय-लघुकृति-समुच्चयः 'इच्चेइअं दुवालसंगं गणिपिडगं अतीए काले अणंता जीवा आणाए आराहित्ता चाउरंतं संसारकंतारं वीईवइंसु। इच्चेइअं दुवालसंगं गणिपिडगं पडुप्पण्णकाले अणंता [परित्रा] जीवा आणाए आराहित्ता चाउरतं संसारकंतारं वीईवयंति । इच्चेइअंदुवालसंगं गणिपिडगं अणागए काले अणंता जीवा आणाए आराहित्ता चाउरंतसंसारकंतारं वीई वइस्संति। [सूत्र ५७, पृ. २४७] इति। युक्तं विशेषणम्। यद् वा, दाम् दाने [सि.धा. ७] भ्वादिः परस्मैपदी। यच्छति स्वर्गापवर्गसुखं संयमाऽसंयमस्वरूपविपाकश्रवणेन संयमस्य समाचरणात् ददाति यत्तत् दम्। यद् दशवैकालिकसूत्रम् सोच्चा जाणइ कल्लाणं सोच्चा जाणइ पावगं। उभयपि जाणइ सोच्चा जं छेअंतं समायरे।। [अध्ययन ४, गाथा. ११] इति । यद् वा, 'दैव शोधने' [सि.धा. २९] भ्वादिः परस्मैपदी। दायति-शुध्यति आत्मा सम्यग्दर्शनज्ञानचारित्राख्यो मोक्षमार्गो वा, कुमार्गश्रद्धानप्रवर्तनप्ररूपणापनयनाद् अनेन इति दम् । सर्वत्र डः प्रत्ययः । तत् दम्। ___ पुनः किम्भूतं अशासनम् ? चितम्, चीयते शुभं कर्म अनेन इति चितम्। अथवा चितम्=पुष्टं गम्भीराथैः इति गम्यते । अर्थतो भगवत्प्रणीतस्य द्वादशाङ्गस्य विश्वव्यापित्वात् पुष्टता सद्भावात् । तत्। पुनः किम्भूतम् अशासनम् ? साधुवर्णक्रमम्, वर्णाः=भेदाः, अर्थात् जीवाजीवादिभेदास्तेषां क्रम:=परिपाटी वर्णक्रमः। साधू रम्यो वर्णक्रमो जीवाजीवादिभेदपरिपाटी यस्मिंस्तत् साधुवर्णक्रमम्। यद् वा, साधुः शोभनो वर्णः=यशः क्रमेषु शास्त्रेषु यस्य तत् साधुवर्णक्रमम्। पुराणादिसर्वशास्त्राणां मध्यात् सिद्धान्तस्यैव परमार्थसाधकत्वेन परमयशस्वित्वात्। वर्णः स्वर्णे व्रते स्तुतौ। रूपे द्विजादौ शुक्लादौ कुथायामक्षरे गुणे। भेदे गीताक्रमे चित्रे यशस्तालविशेषयोः । [अनेकार्थ. २/१५३, १५४ ] इति। पुनः कथम्भूतम् अशासनम् ? साधुवर्णक्रमम्, साधुः=युक्तो वर्णैः स्वरादिभिरक्षरैः क्रमः= पदसन्धिर्यस्मिन् तत् साधुवर्णक्रमम् । सिद्धान्तस्य प्रधानाक्षरपदसन्धित्त्वात्। साधुशब्दो युक्ताऽर्थोऽपि अनेकार्थटीकायाम्। 'क्रमशब्दः परम्परापादक्षेपानन्तर्यपदसन्धिष्वपि' मङ्खः । इति हैमानेकार्थवृत्तिः। Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188