Book Title: Vallabhiya Laghukruti Samucchaya
Author(s): Vinaysagar
Publisher: Rander Road Jain Sangh

View full book text
Previous | Next

Page 129
________________ श्री श्रीवल्लभीय- लघुकृति - समुच्चयः कीदृग् सन् ? शिल्पिशिक्यदेहान्, शिल्पी च प्रकृतिः, 'कारू' इति लोकभाषाप्रसिद्धः, शिक्यं च 'छीका' इति लोकभाषाप्रसिद्धम्, देहश्च = शरीरमिति समाहारद्वन्द्वे शिल्पिशिक्यदेहास्तान् उदाहरति कथयति इति प्रश्ने उत्तरम् - अन्तरुचयः, रुश्च चश्च यश्च इति रुचयाः । अन्ते= अवसाने रुचया यस्य सः अन्तरुचयः । ततो यथाक्रमं कारु-काच- काय इति पृथक्-पृथक् निर्विभक्तिकाः त्रयः शब्दाः भवन्ति, ते चाऽनुक्रमेण शिल्पिशिक्यदेहान् कथयन्तीत्यर्थः । ७० = ननु काध्वनय इति बहुवचने वक्तव्ये कथं काध्वनिंरित्येकवचनं भिन्नान्नां प्रश्नोत्तरशब्दानां त्रित्वात् ? ब्रूमः - एकस्य द्वितीयस्वरोपेतस्य का इत्यक्षर जात्यऽपेक्षया प्राधान्येन च एकत्वात् एकत्वमेव युक्तं, न त्रित्वम्, कार्यबहुत्वेऽपि कारणस्य ऐक्यात् । यथा- पितुः पुत्राः त्रिचतुरादयः इति वत् काध्वनिरित्यत्राप्येकत्वमेव । तथा कारु काच काय इत्यअर्थवदधातुरप्रत्ययः प्रातिपदिकम् [ पा. सू. १/२/४५] इति प्रातिपदिकत्वं अर्थमात्रैकत्वंविवक्षाया अभावात् प्रथमैकवचनसुबभावश्च एकवचनत्वं, तु, काध्वनिरित्यत्र प्रथमैकवचनस्य सिद्धत्वात् । रुकारान्तत्व- चकारान्ततत्व रयकारान्तव इति विशेषणत्वात् सिद्धमेव। ततः क्रमेण पृथक्-पृथक् प्रथमैकवचनान्तशब्दानां विधानात् । कारुः शिल्पिनं, काचः शिक्यं, काय: - देहमुदाहरतीति क्रियमाणपदं त्रिष्वपि योज्यम्। एवमन्यत्राऽप्यग्रे ज्ञेयम् । कारुस्तु कारी प्रकृतिः शिल्पी इति हैमकोषः । [ अभिधा. ३/५६३] शिक्यं काचः इत्यमरः [ अमर. २/१० / ३०] समवसृत्यवनौ=समवसरणभूमौ का: अरुचन्- आदीप्यन्त ? कथंभूताः का: ? भवाम्बुमध्यप्रपातिजनतोद्धृतिरज्जुरूपाः, भवः चतुर्गतिरूपः संसारः स एव अम्बुमध्यं - जलमध्यं तस्मिन् प्रपातिनी - पतनशीला या जनता=जनसमूहस्तस्या उद्धृतिः - उद्धारो नीचैर्बुडनादुच्चैरानयनमित्यर्थस्तस्यां रज्जूनां= रश्मीनां, 'रांढ्र' इत्यादि लोकभाषाप्रसिद्धानां रूपम् आकारो यासां तांस्तथा इति प्रश्ने उत्तरं - जिनदन्तरुचयः - तीर्थङ्करदन्तदीप्तयः, अथवा प्रश्नोत्तरग्रन्थानां सर्वदर्शन- साधारणत्वात् अर्थान्तरमेतत् । समन्तात् अव=निश्चयेन सृति=सरणं क्रीडया इतस्ततो गमनं यस्मिन् स समवसृतिः । अर्थात् नारायणस्य रासमहोत्सवः तस्याऽवनिः तस्यां समवसृत्यवना रासमहोत्सवभुवि का अरुचन् ? शेषं सर्वं पूर्ववत् । इति प्रश्ने उत्तरं - जिनदन्तरुचयः = नारायणदन्तदीप्तय For Personal & Private Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188