Book Title: Vallabhiya Laghukruti Samucchaya
Author(s): Vinaysagar
Publisher: Rander Road Jain Sangh

View full book text
Previous | Next

Page 121
________________ ६२ श्री श्रीवल्लभीय- लघुकृति - समुच्चयः वृन्दम् ? ‘अरणम्’=निर्द्वन्द्वम् । पुनः किम्विशिष्टं वृन्दम् ? ' मोरारिमारोत्सवम्' 'मुर वेष्टने' [पा.धा. १४३०] मुरन्ति आत्मानमिति मोरा, अणन्तः, तेच ते अरयश्च भावशत्रवो मोरारयः तान् मथ्रातीति । क्वचित् [ सि.हे. ५/१/१७१] इति डे। मोरारिमम्। आ=समन्तात् राणां नराणाम् उत्सवः = हर्षो यस्मात् आरोत्सवम् । मोरारिमं च तत् आरोत्सवं चेति कर्मधारये मोरारिमारोत्सवं तत् । एवम्विधं मयमयां वृन्दं वन्दे ।। इति द्वितीयवृत्तार्थः ।। २ ।। अथ तृतीये वृत्तेऽर्हत्प्रणीतप्रवचनप्रणुतिं प्रकटयन्नाह - लक्ष्मीलक्षणलक्ष्यलक्षणगुणं कल्याणवाणव्रणं, वंशोद्धारवरं वरं वर वरं सेनासमूहक्षणम् । उद्यानं सदनं घनं घन घनं घानां घनं घं घनं, केलीको! ऽल कलं कचन्दनंवनं सल्लाच्छनं वाञ्छनम्।। ३।। अस्य व्याख्या - हे केलीको ! केलिः = क्रीडा अर्थात् सुकृतस्य तस्याः कुः-स्थानं केलीकुः तत्सम्बुद्धौ हे केलीको ! - हे सुमते ! 'कल्याणवाणव्रणम्' कल्याण:-कल्याणकारी वाण:- शब्दो येषामिति कल्याणवाणा:-तीर्थकृतस्तेषां व्रणः=वचनं तं कल्याणवाणव्रणं तीर्थकृदुदितसिद्धान्तलक्षणं त्वं वर= अङ्गीकुरु । अत एव घनं=प्रभूतं घम् - पापं अल-निवारय । 'घं पापम्' [ एकाक्षरनाममाला ३०] उच्यते सौभरिः । किम्भूतं कल्याणवाणव्रणम् ? 'लक्ष्मीलक्षणलक्ष्यलक्षणगुणम्' 'इलस् शये गतौ ' [ ] ' गत्यर्थानां प्राप्त्यर्थत्वात्' लक्ष्मीं=चारित्रश्रियं इलन्ति = प्राप्नुवन्तीति लक्ष्मीला :- साधवः तेषां क्षण: - उत्सवो यस्मादिति लक्ष्मीलक्षणः, लक्ष्या - दर्शनीया लक्षणगुणा यस्य लक्ष्यलक्षणगुणः लक्ष्मीलक्षणश्चासौ लक्ष्यलक्षणगुणश्चेति कर्मधारये लक्ष्मीलक्षणलक्ष्यलक्षणगुणस्तम्। पुनः किम्विशिष्टम् ? वंशोद्धारवरम् । वंशः = सङ्घो अर्थात् गणधरादीनां तस्मात् य उद्धारस्तेन वरः = प्रधानो वंशोद्धारवरस्तम्। 'वंशः सङ्के [अनेकार्थसंग्रह २/५६७] इत्युक्ते ।' पुनः किम्विशिष्टं=कल्याणवाणव्रणम् ? ‘वरम्’‘वृङ् सम्भक्तौ' [पा.धा. १६०८] व्रियते, = सेव्यते मुनिजनैरिति वरस्तम्। पुनः किमिवशिष्टं कल्याणवाणव्रणम् ? ‘वरम्' उ: रक्षाप्रस्तावाद् भक्तलोकानां ताम् इयर्ति प्राप्नोति यः स वरस्तम् । रक्षार्थवाचकावेतौ व्याख्यातौ लघुदीर्घकौ [ एकाक्षरनाममालिका ११] इति विश्वशम्भूक्तेः । पुनः किम्विशिष्टं Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188