Book Title: Vallabhiya Laghukruti Samucchaya
Author(s): Vinaysagar
Publisher: Rander Road Jain Sangh

View full book text
Previous | Next

Page 126
________________ प्रश्नोत्तरैकषष्टिशतकाव्यम् क्रमनखदशकोटीदीप्रदीप्तिप्रतानैदशविधतनुभाजामुज्ज्वलं मोक्षमार्गम्। पृथगिव विदिशन्तं पार्श्वमानम्य सम्यक्, कतिचिदबुधबुद्धयै वच्यहं प्रश्रभेदान्॥ १॥ व्याख्याः- क्रमनखेति। अहं श्रीजिनवल्लभसूरिः कतिचित् का संख्या एषामिति, कति। किमः संख्यापरिमाणे [पा. सू. ५/२/४१] डति चेति डतिप्रत्ययः। तान् कति? अज्ञातान् कतीति कतिचित्-कियतोऽपि। प्रश्नभेदान् प्रश्नप्रकारान् वच्मि कथयामीत्यर्थः, इत्यन्वयः। किमर्थे ? अबुधबुद्धयै, न बुधाः अबुधाः=अनधीतप्रश्नोत्तर ग्रन्थाः, अधीतापरव्याकरणाद्यनेकग्रन्थाः, पण्डितसदृशा इत्यर्थः। अत्र नञः पर्युदासार्थस्य ग्रहणात्। तथा च तल्लक्षणं द्वौ नौ हि समाख्यातौ पर्युदासप्रसज्यतौ। पर्युदासः सदृग्ग्राही प्रसज्यस्तु निषेधकृत्॥ [ ] न ब्राह्मणो अब्राह्मणः= ब्राह्मणसदृशः क्षत्रियादिरित्यर्थः । अब्राह्मणशब्दवत् अबुधशब्दोऽपीत्यर्थः । अबुधानां बुद्धि: अबुधबुद्धिस्तस्यै। तादर्थ्य चतुर्थी वाच्येति वक्तव्यात् तादर्थ्य चतुर्थी अथवा नजो निषेधार्थत्वात्। न बुधाः अबुधाः अपण्डिताः= [पा. वा. १४६] सर्वथाऽनधीतशास्त्राः मूर्खा इत्यर्थः । यद्वा नब ईषदर्थत्वात् न ईषद्बुधाः । अबुधाः ईषत्पण्डिताः अधीताऽनेकशास्त्रा अपि। अल्पबुद्धित्वादसंस्फुरबुद्धयस्तेषां बुद्ध्यै अबुधबुद्ध्यै। अनेन पदेन एतद्ग्रन्थाध्ययनश्रवणादिना मूर्खा: ईषबुद्धयश्च ये ते प्रभूताद्भुतप्रबुद्धबुद्धयो भवन्तीत्येतस्य माहात्म्यमावेदितं। अथवा अनेन पदेन श्रीजिनवल्लभसूरिः स्वगर्वाऽपहारमकरोत् ॥ तादर्थ्य चतुर्थी वाच्येति [पा. वा. १४६] वक्तव्यात् तादर्थ्य चतुर्थी। किं कृत्वा? पार्श्व श्रीपार्श्वनाथं जिनं सम्यक्सत्यं यथास्यात्तथा आनम्य-प्रणम्य। आडो[दौ] भक्तिवशश्रद्धा वातिशयलक्षणप्रकर्षस्य द्योतनात्। सत्यं सम्यक्समीचीनमिति हेमकोषः [अभि. २/१९८] । किंकुर्वन्तं श्रीपार्श्वम्? उज्ज्वलं निर्मलं मोक्षमार्ग पृथगिव भिन्न-भिन्नमिव विदिशन्तं प्रयच्छन्तम्। Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188