________________
श्रीश्रीवल्लभीय-लघुकृति-समुच्चयः 'इच्चेइअं दुवालसंगं गणिपिडगं अतीए काले अणंता जीवा आणाए आराहित्ता चाउरंतं संसारकंतारं वीईवइंसु। इच्चेइअं दुवालसंगं गणिपिडगं पडुप्पण्णकाले अणंता [परित्रा] जीवा आणाए आराहित्ता चाउरतं संसारकंतारं वीईवयंति । इच्चेइअंदुवालसंगं गणिपिडगं अणागए काले अणंता जीवा आणाए आराहित्ता चाउरंतसंसारकंतारं वीई वइस्संति। [सूत्र ५७, पृ. २४७]
इति। युक्तं विशेषणम्। यद् वा, दाम् दाने [सि.धा. ७] भ्वादिः परस्मैपदी। यच्छति स्वर्गापवर्गसुखं संयमाऽसंयमस्वरूपविपाकश्रवणेन संयमस्य समाचरणात् ददाति यत्तत् दम्। यद् दशवैकालिकसूत्रम्
सोच्चा जाणइ कल्लाणं सोच्चा जाणइ पावगं। उभयपि जाणइ सोच्चा जं छेअंतं समायरे।।
[अध्ययन ४, गाथा. ११] इति । यद् वा, 'दैव शोधने' [सि.धा. २९] भ्वादिः परस्मैपदी। दायति-शुध्यति आत्मा सम्यग्दर्शनज्ञानचारित्राख्यो मोक्षमार्गो वा, कुमार्गश्रद्धानप्रवर्तनप्ररूपणापनयनाद् अनेन इति दम् । सर्वत्र डः प्रत्ययः । तत् दम्।
___ पुनः किम्भूतं अशासनम् ? चितम्, चीयते शुभं कर्म अनेन इति चितम्। अथवा चितम्=पुष्टं गम्भीराथैः इति गम्यते । अर्थतो भगवत्प्रणीतस्य द्वादशाङ्गस्य विश्वव्यापित्वात् पुष्टता सद्भावात् । तत्।
पुनः किम्भूतम् अशासनम् ? साधुवर्णक्रमम्, वर्णाः=भेदाः, अर्थात् जीवाजीवादिभेदास्तेषां क्रम:=परिपाटी वर्णक्रमः। साधू रम्यो वर्णक्रमो जीवाजीवादिभेदपरिपाटी यस्मिंस्तत् साधुवर्णक्रमम्। यद् वा, साधुः शोभनो वर्णः=यशः क्रमेषु शास्त्रेषु यस्य तत् साधुवर्णक्रमम्। पुराणादिसर्वशास्त्राणां मध्यात् सिद्धान्तस्यैव परमार्थसाधकत्वेन परमयशस्वित्वात्। वर्णः स्वर्णे व्रते स्तुतौ। रूपे द्विजादौ शुक्लादौ कुथायामक्षरे गुणे। भेदे गीताक्रमे चित्रे यशस्तालविशेषयोः । [अनेकार्थ. २/१५३, १५४ ] इति।
पुनः कथम्भूतम् अशासनम् ? साधुवर्णक्रमम्, साधुः=युक्तो वर्णैः स्वरादिभिरक्षरैः क्रमः= पदसन्धिर्यस्मिन् तत् साधुवर्णक्रमम् । सिद्धान्तस्य प्रधानाक्षरपदसन्धित्त्वात्। साधुशब्दो युक्ताऽर्थोऽपि अनेकार्थटीकायाम्। 'क्रमशब्दः परम्परापादक्षेपानन्तर्यपदसन्धिष्वपि' मङ्खः । इति हैमानेकार्थवृत्तिः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org