SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ श्री अजितनाथस्तुतिः निर्जरानन्दनं सर्वदाशासनं सर्वदाऽशासनं निर्जरानन्दनम् ।। ३ ।। सत्क्रियेत्यादि। हे सर्वद ! सर्वाणि=समस्तानि पञ्चप्रकारत्वात् दशप्रकारत्वाद् वा, दानि दानानि यस्य स सर्वदः । अभयं सुपत्तदाणं अणुकंपा उचिय कित्तिदाणं च । दुण्णवि मुक्खो भणिओ तिण्णवि भोगाइअं दिति ।। इति पञ्चधा दानम्। दशधा तु एवं श्रीस्थानाङ्गे दशमे स्थानकेदसविहे दाणे पण्णत्ते । तं जहा अणुकंपा संग चेव भये कालुणिएइ अ । लज्जाए गारवेणं च अहम्मे उण सत्तमे । धम् अ अट्टमे वुत्ते काहीति त कर्तति त ।। Jain Education International ४९ [उ.सूत्र ७८७] इति । एतेषां दशधा-दानानां व्याख्या एतद् वृत्तितोऽवसेया । अस्माभिस्तु स्तुतिवृत्तिगौरवभिया न लिखिता इति । श्रावकस्य सर्वदानदायित्वाद् युक्तं विशेषणमिदम् । दस्तु दातरि छेददानयो: [ ] इति श्रीधरः । यद् वा, सर्वेषु दानशौण्ड यः सः सर्वदः । 'दो दाने पूजने क्षीणे दानशौण्डे' [ एका.ना.प. ६७ ] इति विश्वशम्भुः । तदामन्त्रणं हे सर्वद ! = जिनशासनोक्तपञ्चविधदशविधदानदातः श्रावकलोक ! आः = अर्हन्तः । अ स्यादर्हति सिद्धे च [अपवर्गनाममाला, द्वितीय खण्ड प. १५३] इति वचनात् । तेषां शासनं - शास्त्रं द्वादशाङ्गीरूपम्, अत्र शासनं जिनागम इत्यर्थः । शासनं नृपदत्तोर्व्यां शास्त्राज्ञालेखशास्तिषु [अनेकार्थ. ३/४५३] इति हैमानेकार्थः । तत् त्वं सत्क्रियाः=सत्कुर्याः । सत् इति अव्ययम् आदरे । अथ जिनशासनं विशेषणैर्विशिनष्टि-किम्भूतम् अशासनम् ? दम्, दों छोंच् छेदने [सि.धा.१६९] दिवादि: परस्मैपदी । द्यति खण्डयति समाराधनया अज्ञानं चातुरन्तसंसारकान्तारं च यत्तत् दम् । यद् उत्तराध्ययनम् 'सुअस्स आराहणयाए णं भंते जीवे किं जणयइ । सुअस्स आराहणयाए णं अण्णाणं खवेइ, न य संकिलिस्सइ । [ अध्ययन २९, सूत्र २४ ] इति । नन्दीसूत्रं च For Personal & Private Use Only www.jainelibrary.org
SR No.004049
Book TitleVallabhiya Laghukruti Samucchaya
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRander Road Jain Sangh
Publication Year2012
Total Pages188
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy