________________
श्री श्रीवल्लभीय- लघुकृति - समुच्चयः
पुनः कथम्भूताः हे विश्वतीर्थाधिपाः ? मानिताहारिणः ! मा= लक्ष्मी: सेव, असंख्यसौख्यमयत्वात् । मा=मुक्तिः । तत्र अनिताः=ज्ञानादिभावप्राणधारित्वेन जीविता ये ते मानिताः । यत्प्रज्ञापनासूत्राष्टादशपदम्
'जीवे णं भंते जीवेत्ति कालतो केव चिरं होति । गोअमा सव्वद्धं जीवे णं' [पद १८, सूत्र २३२ ] इत्यादि । वृत्तिश्चास्य- 'इह जीव[न] पर्यायविशिष्टो जीव उच्यते । तत्प्रश्नयति- जीवे णमिति । णं इति वाक्यालङ्कारे भदन्त ! जीवस्य इति जीवनपर्यायविशिष्टतया इत्यर्थः । कालतः अधिकृत्य कियच्चिरं कियन्तं कालं यावत् भवति । भगवानाह - गौतम ! सर्वाद्धां सर्वकालं यावत् । कथमिति चेत् ? उच्यते- इह जीवन उच्यते प्राणधारणम् । प्राणाश्च द्विधा, द्रव्यप्राणा भावप्राणाश्च।' द्रव्यप्राणाः - इन्द्रियपञ्चकबलत्रिको च्छ्वासनिः श्वासायुष्कर्मानुभवलक्षणाः । भावप्राणाः ज्ञानादयः । तत्र संसारिणाम् आयुष्कर्मानुभवलक्षणं प्राणधारणं सदैव स्थितम् । न हि सा काचिदवस्था संसारिणाम् अस्ति यस्याम् आयुष्कर्मानुभवनं न विद्यत इति । मुक्तानां तु ज्ञानादिरूपप्राणधारणमेव स्थितम् । मुक्तानामपि हि ज्ञानादिरूपाः प्राणाः सन्ति । यैर्मुक्तोऽपि [ द्रव्यप्राणै: ], जीवतीति व्यपदिश्यते । ते च ज्ञानादयो मुक्तानां शाश्वतिका, अतः संसार्यवस्थायां मुक्ताऽवस्थायां च सर्वत्र जीवनमस्तीति । सर्वकालभावी जीवनपर्याय: [ प्रज्ञा० मलयगिरि टीका, पद १८, सूत्र २३२] इति ।
1
४८
=
1
यद् वा, न इता=गता अनिता । मा-लक्ष्मीः । सा च मोक्षं प्रति प्रवृत्तानां संयमश्रीः, केवलिनां केवल श्रीः, सिद्धानां च ज्योतिः श्रीर्वा । अनिता=विद्यमाना येषां ते मानिता:, यथाकालं शश्वद्भास्वत्संयमादिलक्ष्मीका इत्यर्थः । आहारः=भोजनं विद्यते येषां ते आहारिणः । तीर्थकृतामाहारविधेः सद्भावात् । अत एवोक्तं श्रीसमवायाङ्गे चतुस्त्रिंशत्समवाये
पच्छपणे आहारनीहारे अदिस्से मंसचक्खुणा [ सूत्र ३४५ ] इति । ततः पदद्वस्य कर्मधारये मानिताहारिणः । तदाऽऽमन्त्रणं हे मानिताहारिणः !
इति द्वितीयायाः स्तुतेर्द्वितीयोऽर्थः । २ ।
अथ तृतीयस्तुतिस्तवनीयं समस्तजनकमनीयं श्रीमदर्हच्छासनं वर्णयतिसत्क्रिया दं चितं साधुवर्णक्रम, साधुवर्णक्रमं सत्क्रियादञ्चितम् ।
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org