________________
श्री अजितनाथ स्तुतिः
शब्दवद् रूपाणि। तीर्थं शास्त्रे गुरौ यज्ञे पुण्यक्षेत्रावतारयोः । ऋषिजुष्टे जले [ अनेकार्थ. २/ २१९, २२०] इति हैम: । यद् वा, विश्वतीर्थानाम्स्वसमयपरसमयसमस्तशास्त्राणाम् अधिपाः = स्वामिनः सर्वज्ञत्वाद् ये ते विश्वतीर्थाधिपाः, तदाऽऽमन्त्रणं हे विश्वतीर्थाधिपाः ! पुनः कथम्भूता: हे विश्वतीर्थाधिपाः? भव्यदायक्रमाः, भवः = संसारो विद्यते येषां ते भविनः, संसारिणः=एकद्वित्रिचतुःपञ्चेन्द्रियाः । दों छोंच् छेदने [ सि.धा. १६४ ] तन् व्यधीति णे दायः । भविनां न विद्यते दाय:-छेदनं येषां ते भव्यदायाः । क्राणि - इन्द्रियाणि स्पर्शनादीनि पञ्च, तानि मीनन्ति हिंसन्ति । इन्द्रियनिग्रहकरणाद् ये ते क्रमाः । क्रं खमिन्द्रियमित्युक्तम् [द्व्यक्षरकाण्ड प. ५६ ] इति सौभरिकृतसंयुक्तैकाक्षरकोषे । मीग्श् हिंसायाम् [ सि.धा. १६४] क्र्यादिरुभयपदी । अस्मात् डः प्रत्ययः[सि.धा.१५१२] । भव्यदायाश्च ते क्रमाश्च भव्यदायक्रमाः । यद् वा, भव्याः=सत्पुरुषाः, तीर्थकृतामपरपुरुषापेक्षया प्राधान्यात् । भव्यस्तु कर्मरङ्गतरौ सति । [ अनेकार्थ. २/३७७] इति । सति, सत्पुरुषे, सति-विद्यमाने [ ] इति मङ्ख:, इति तट्टीका | दायस्य धनस्य क्रमः - सामर्थ्यं गृहस्थावस्थायां येषां ते दायक्रमाः । यद् वा, दायः = धनं, स च मोक्षं प्रति प्रवृत्तानां संयमः, तस्य क्रमः = शक्तिर्येषां ते दायक्रमाः । दायशब्दो धनमात्रेऽपि [ ] इति अनेकार्थटीका । भव्याश्च ते दायक्रमाश्च भव्यदायक्रमाः । यद् वा, दायस्य क्रमो दायक्रमः = धनशक्तिः संयमशक्तिर्वा, भव्यः=विद्यमानो गृहस्थावस्थायां कैवल्यावस्थायां वा दायक्रमो येषां ते भव्यदायक्रमाः । तदाऽऽमन्त्रणं हे भव्यदायक्रमाः !
"
-
पुनः कथम्भूताः हे विश्वतीर्थाधिपाः ? मानिताहारिणः, मानम्= = प्रमाणं प्रत्यक्षानुमानादि । यदाहु:- मानं प्रमाणे [ अनेकार्थ. २ / २८१] इति । प्रमाणं प्रत्यक्षादि [ ] इति मङ्खः । तद् विद्यते येषां ते मानिनः = बौद्धादयस्तेषां समूहो मानिता, तां हरन्तीति मानिताहारिणः । ग्रहादिभ्यो णित् [ सि.हे. ५/१/ ५३] इति णिन् । यद् वा, मायाः = लक्ष्म्याः संसारसम्बन्धिन्याः न विद्यते इतंगमनं येभ्यस्ते मानिताः । हारः संग्रामो द्यतेते येषां ते हारिणः, न हारिणो अहारिणः। हारस्तु मुक्तादामनि संयुगे [ अनेकार्थ. २/४८४] संयुगं सङ्ग्रामः [ अनेकार्थ. टीका० ] इति तट्टीका । मानिताश्च ते अहारिणश्च मानिताहारिणः । तदामन्त्रणं हे मानिताहारिणः !
Jain Education International
४७
For Personal & Private Use Only
www.jainelibrary.org