________________
४६
श्रीश्रीवल्लभीय-लघुकृति-समुच्चयः अव्ययम्, बिभ्रता न धरता चित्ते इति गम्यते। पिशाचादिना दुष्टदेवेन नाधिष्ठितेन, किन्तु जिनसेवारतत्वात् जिनाधिष्ठितेन इत्यर्थः । सत्त्वं द्रव्ये गुणे चित्ते व्यवसायस्वभावयोः। पिशाचादौ' [अनेकार्थ. २/५५३] इति। यद् वा, सत्त्वम्अतिशयवद्वीर्यम् अवष्टम्भम् इति यावत्। जिननामध्यानरूपम् अवष्टम्भम् आबिभ्रता धरता। पतितेऽप्यनिष्टे कष्टे जिननामध्यानावष्टम्भधारिणा नान्यतीर्थिकदेवावष्टम्भधारिणा इत्यर्थः । आम् इति अव्ययम् अवधारणे।
अथ विश्वतीर्थाधिपाः ! सम्बोधनपदैविशेष्यन्ते-कथम्भूताः हे विश्वतीर्थाधिपाः ! भव्यदायक्रमाः।* [भव्यम् फलं स्वर्गापवर्गासंख्यसुखप्रापणलक्षणं, तस्य दायः=दानं येषां ते भव्यदायाः। एवम्विधाः क्रमा: शास्त्राणि आचाराङ्गादीनि येषां ते भव्यदायक्रमाः । भव्यं तु फले [अनेकार्थ. २/३७७] इत्येनकार्थः । दायो दाने [अनेकार्थ. २/३६९] इति वचनात् । 'क्रमः कल्पांह्निशक्तिषु' [अनेकार्थ. २/३२०] इति। 'कल्पो न्यायः शास्त्रं वा' [ ] इति तद्वृत्तिः । यद् वा] * भवः= श्रेयो विद्यते येषां ते भविनः । मुक्तिप्राप्तत्वात् शाश्वतानन्तकल्याणभाजः इत्यर्थः । 'भवः सत्ताप्ति-जन्म। रुद्रे श्रेयसि' [अनेकार्थ. २/५४५] इत्युक्तेः । दाय: सोल्लुण्ठभाषणम् । 'दायो दाने यौतकादिधने सोल्लुण्ठभाषणे' [अनेकार्थ. २/३६९] इत्यनेकार्थः । दायस्य क्रमः परिपाटी दायक्रमः। इह क्रमग्रहणाद् असभ्योद्भावनाऽप्रीतिकारिगालिराल्यादिग्रहः । नास्ति दायक्रमो येषां ते अदायक्रमाः, अमर्मवेधिन इत्यर्थः । तीर्थङ्करा हि परमर्मोद्घाटनं न कुर्वन्तीति वचनातिशयो दर्शितः । भविनश्च ते अदायक्रमाश्च भव्यदायक्रमाः, तदाऽऽमन्त्रणे हे भव्यदायक्रमाः !
पुनः कथम्भूताः हे विश्वतीर्थाधिपाः? विश्वतीर्थाधिपाः, तीर्थम् जलं कारणे कार्योपचारात् जलस्नानम् इत्यर्थः, तत्र आधि: व्यसनं येषां ते तीर्थाधयः, अर्थात् वारिभद्रकादयो भागवतविशेषाः जलस्नानमोक्षाङ्गीकारकाः कुतीर्थिकाः, ते हि शीतोदकसेवनेन मोक्षं प्रवदन्ति । यथा उदकं बाह्यमलम् अपनयति एवं आन्तरमपि। वस्त्रादेश्च यथा उदकात् शुद्धिरुपजायते तथा अन्तराऽपि शुद्धिरुदकादेव इति। विश्वं लोकं तीर्थाधिभ्यो जलसेचनमोक्षाङ्गीकारकेभ्यो वारिभद्रकादिम्यः सदुपदेशेन पान्ति रक्षन्ति ये ते विश्वतीर्थाधिपाः । अत्र विच् प्रत्ययः, सोमपा * चिह्नान्तर्गतांशो मूलप्रतौ हरितालितम्।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org