________________
४५
श्री अजितनाथस्तुतिः यद् वा, विश्वस्य भव्यलोकस्य तीर्थस्य च चतुर्विधसङ्घस्य अधिपाः=नाथाः योगक्षेमकृतो ये ते विश्वतीर्थाधिपाः । तत्र योगम्=बीजाधानोभेदपोषणकरणम्, क्षेमं तदुपद्रवाद्यभावापादनम् । तदाऽऽमन्त्रणं हे विश्वतीर्थाधिपाः != चतुर्विंशतिस्तीर्थङ्कराः ! भ्रताम्, भ्रा भासुरा ता-लक्ष्मी: शोभा यस्य तत् भ्रतम्। 'भ्रं भासुरम्' [द्वयक्षरकाण्ड, प. ९१] इति सौभरिकृतसंयुक्तैकाक्षरकोषे। ता सा श्री: कमलेन्दिरा [अभिधान. २२६] इति वाक्यात्। लक्ष्मीशोभयोः साहचर्यात् ता शब्द: शोभावाची। अम्=ज्ञानम्। अम्शब्दो मान्तो ज्ञानवाची। यद् विश्वशम्भुः
'अंमान्तो ब्रह्मसम्वादे परब्रह्मप्रवाचकः।।१९।। व्यसने व्याधिते व्याधौ ज्ञानविज्ञानवेदने।।२०।।
[एकाक्षरनाममालिका] इति। भ्रतञ्च तत् अम् च भ्रताम् शोभनशोभं ज्ञानम् अर्थात् श्रुतज्ञानम् आवि:प्राप्तम्, भवत्प्रभावात् इति गम्यते । अवधातुरत्र एकविंशतावर्थेषु मध्यात् प्रापणार्थः । 'यमकशूषचित्रेषु बवयोर्डलयोन भित्' [वाक्भट] इति वाक्याद् बकारस्य वकारो न दुष्टः । केन? अमा, 'अम् शब्दभक्त्योः ' अमति भजति जिनान् इति । क्विपि। अम्, तेन अमा-मल्लक्षणेन सेवकेन इत्यर्थः । कथम्भूतं भ्रताम्? सतत्=प्रशस्तं विद्यमानं वा। तुः अव्ययम् अत्र विशेषे। श्रुतज्ञानस्य अधुनातनजनानां अत्यन्तोपकारित्वाद् अपरज्ञानापेक्षया विशिष्टत्वात्, अपरज्ञानत्रिकविच्छेदे विद्यमानत्वाच्च। साम्प्रतं हि ज्ञानपञ्चकात् ज्ञानत्रिकविच्छेदे मतिश्रुतज्ञानयोः सद्भावेऽपि श्रुतज्ञाने परस्परमनुगते, अतः श्रुतज्ञानस्य विशिष्टत्वं विद्यमानत्वञ्च युक्तम् । यदुक्तं श्रीबृहत्कल्पटीकायाम्
'जत्थ मतिनाणं तत्थ सुअनाणं, जत्थ सुअनाणं तत्थ मइनाणं, दोवि ए आई अण्णोण्णमणुगयाइं।'
[ ] इति। तुः अवधारणे वा। तेनायमर्थः-भ्रताम् भासुरशोभं ज्ञानम् श्रुतज्ञानम् अमा मल्लक्षणेन सेवकेन भवत्प्रभावात् इति गम्यते, आवि:=प्राप्तम् इति अवधारयामि इत्यर्थः । कथम्भूतेन अमा? सत्त्वम्=पिशाचादिदुष्टदेवम्। आ निषेधे
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org