SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ ४४ अथ द्वितीयायां स्तुतौ चतुर्विंशतितीर्थकृतां स्तुतिं प्रकटयतिविश्वतीर्थाधिपा भव्यदायक्रमा विश्वतीर्थाधिपा भव्यदायक्रमाः । मानिताहारिणः सत्त्वमाबिभ्रतां मानिताहारिणः सत्त्वमा बिभ्रताम् ।। २ ।। विश्वतीर्थेत्यादि। अत्र काव्ये युग्मकं नाम यमकम्। तदुदाहरणञ्च काव्यानुशासनकार आह, यथा श्री श्रीवल्लभीय- लघुकृति - समुच्चयः 'विनायमेनोनयता मुखादिता विनायमेनोनयता मुखादिता । महाजनो दीयत मानसादरं महाजनो दीयत मानसादरम् ।।' इति । तीर्थम् = प्रवचनाधारं चतुर्विधसङ्घम् अधिपान्ति- अधिकं पालयन्ति ये ते तीर्थाधिपाः, विश्वे च ते तीर्थाधिपाश्च विश्वतीर्थाधिपाः, समस्ताश्चतुर्विंशतिस्तीर्थकृतः, तदाऽऽमन्त्रणं हे विश्वतीर्थाधिपाः ! यूयम् इत= प्राप्नुत । विश्वे=लोके, विश्वानि=समस्तानि वा, तीर्थानि=दर्शनानि विश्वतीर्थानि, बौद्धनैयायिकादिमतानीत्यर्थः । तीर्थं शास्त्रे गुरौ यज्ञे पुण्यक्षेत्रावतारयोः ।। अनेकार्थ. २/ २१९ ।। ऋषिजुष्टे जले सत्त्रिण्युपाये स्त्रीरजस्यपि ।। Jain Education International योनौ पात्रे दर्शनेषु । [ अनेकार्थ. २/ २१९, २२०] इति वाक्यात् । तेषु य आधिः = आशा तद्धर्मविधानेच्छेति यावत्, तं पिंषन्ति सञ्चर्णयन्ति ये ते विश्वतीर्थाधिपाः । 'आधिर्मनोत्तौ व्यसनेऽधिष्ठाने बन्धकाशयो:' [अनेकार्थ. २/ २४२] इति हेमचन्द्रसूरिः।‘पिष्लृप् सञ्चूर्णने’ [सि.धा. १४९] रुधादि: परस्मैपदी । 'क्वचित्' [सि.हे. ५/१/१७१] इति डः प्रत्यय । यद् वा, तीर्थम्=जलं तस्य आधि: =अधिष्ठानं, तीर्थाधिः समुद्रः स इव । तीर्थाधिः अर्थात् संसारः तस्मात् पान्ति= रक्षन्ति ये ते तीर्थाधिपाः । संसारसागरे निमज्जन्तो जन्तूनां पालका इत्यर्थः । विश्वे च ते तीर्थाधिपाश्च विश्वतीर्थाधिपाः । For Personal & Private Use Only - www.jainelibrary.org
SR No.004049
Book TitleVallabhiya Laghukruti Samucchaya
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRander Road Jain Sangh
Publication Year2012
Total Pages188
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy