________________
श्री अजितनाथस्तुतिः
४३ इति द्वन्द्वे यके कामपापे। तीर्थस्य चतुर्विधसङ्घस्य सन्ने शटिते आ-सामस्त्येन यके यस्मात्स तीर्थसन्नायकः। यद्वा, तीर्थम्=प्रस्तावात् क्रियावाद्यादीनां बौद्धादीनां वा दर्शनम्। 'तीर्थं शास्त्रे गुरौ यज्ञे पुण्यक्षेत्रावतारयोः । ऋषिजुष्टे जले सत्त्रिण्युपाये स्त्रीरजस्यपि। योनौ पात्रे दर्शनेषु' [अनेकार्थ. २/२१९, २२०] इति अनेकार्थः। ततोऽयमर्थः-तीर्थे स्वीयतीर्थे सीदन्ति स्म क्रियैव परलोकसाधनाय अलमिति जानन्ति स्म ये ते तीर्थसन्नः क्रियावादिनः । एते हि क्रियामात्रादेव अमीष्टार्थं सिद्धिमिच्छन्ति, न च किञ्चिदपि ज्ञानेन प्रयोजनम्, निश्चेष्टत्वात्, घटादिकरण प्रवृत्तौ आकाशादिपदार्थवत्। पठ्यते च
क्रियैव फलदा पुंसां न ज्ञानं फलदं मतम्।
यतः स्त्रीभक्ष्यभोगज्ञो न ज्ञानात् सुखितो भवेत्।[ ] इति । एवम् अन्ये अक्रियादयो बौद्धादयो वा तान् प्रति अयते-याति तत्त्वोपदेशेन सम्यगवबोधविधानाय यः सः तीर्थसन्नायकः, तम्। क्रियावतो ज्ञानहीनस्य देशाराधकत्वम्, अक्रियावतो ज्ञानवतो देशविराधकत्वम्, क्रियावतो ज्ञानवतो सर्वाराधकत्वम्, अक्रि यावतो ज्ञानरहितस्य सर्वविराधकत्वम्, इति यथावस्थिततत्त्वोपदेशकत्वात् तीर्थकरस्य। पुनः कथम्भूतम् अजितम् ? संस्तुतानामयम्, सम्यक् स्तुतः संस्तुतः, आमम्=अविशोधिकोट्याख्यं याति=प्रोप्नोति आमयः, न आमयो अनामयः, संस्तुतश्चासौ अनामयश्च संस्तुतानामयस्तम्। यत् सूत्रकृताङ्गवीरस्तवः
णिरामगंधे [सूत्र. आध्ययन ६. पद्य ५]
वृत्तिश्चास्य - 'निर्गतः- अपगत आमः- अविशोधिकोट्याख्यः तथा गन्धः-विशोधिकोटिरूपो यस्मात् स भवति निरामगन्धः।" इति। [सूत्र अ. ६ प. ५ शीलांकाचार्यकृत व्याख्या] पुनः कथम्भूतं अजितम् ? यम्, इ:कामस्तं अस्यति क्षिपति यः सः यः । क्वचित्' [सि.हे. ५/१/१७१] इति डः । याति-गच्छति वा यः, वायुरिव अप्रतिबद्धविहारी इत्यर्थः । आतो ड: ' [सि.हे. ५/१/७६] इति डः।
इति प्रथमायाः स्तुतेर्द्वितीयोऽर्थः।१।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org