________________
४२
श्री श्रीवल्लभीय- लघुकृति - समुच्चयः
'दयि दानगतिहिंसादहनेषु च ' भ्वादिरात्मनेपदी । 'णकतृचौ' [सि.हे. ५ /१/ ४८] इति णकः प्रत्ययः । पुनः कथम्भूतम् अजितम् ? तीर्थसन्नायकम्, तीर्थम् = पुण्यक्षेत्रं शत्रुञ्जयादि तत् सीदन्ति गच्छन्ति वन्दनापूजनाद्यर्थं ये ते तीर्थसदः । शत्रुञ्जयगिरिनारसम्मेतशिखर्यष्टापदादितीर्थयात्राकारकाः साधवः श्रावका वा, तेषां नायकः = स्वामी यः स तथा तम् । यद् वा, 'षद्लृ विशरणगत्यवसादनेषु' [सि.धा. ९६६ ] । 'विशरणं शटनं अवसादोऽनुत्साहः ' [ ] इति धातुपारायणम् । क्ते सन्नः । तीर्थम् = पुष्करादिपुण्यक्षेत्रे तत्र सन्नाः-उत्साहरहिताः ये ते तीर्थसन्नाः, अर्थात् श्रावकास्तैः ईयते = गम्यते वन्दनादिना पुण्याय वा यस्मिन् सः तीर्थसन्नायः । 'इणक् गतौ' अदादिः परस्मैपदी, स्वार्थे के, तीर्थसन्नायकः । तीर्थसन्नानाम् = श्रावकाणाम् आयश्च=लाभो दानादिसम्बन्धी, कं च सुखं ऐहिकं पारत्रिकं वा यस्मात् स इति वा तीर्थसन्नायकस्तम् । पुनः कथम्भूतम् ? यम्, यः = सूर्य: स इव, देशनांशुभिर्यथावस्थितवस्तुप्रकाशको यः स तथा । 'यः सूर्ये'' [एकाक्षरनाममालिका, प. ९८] इति विश्वशम्भुः । यद् वा, 'यांक् प्रापणे' अदादि: परस्मैपदी । याति प्राप्नोति देवादिभ्योऽतिशयपूजामिति यः, तम् । [सि.धा. १०६२] 'आतो ड:' [ सि.हे. ५/१/७६] इति ङः ।
4
प्रथमस्तुते प्रथमोर्थः ।
'कान् कर्मतापन्नान् ? मान् । किम्भूतान् मान् अरिणः, अश्च अकारः, रश्च रकारः इति द्वन्द्वे अरौ अकाररकारौ, तौ विद्येते प्रस्तावादादौ येषां ते अरिणः तान् । कोऽर्थः ? अरमान् । ततोऽयमर्थः - न विद्यते रमः-कन्दर्पस्तज्जयाद् येषां ते अरमास्तान् अरमान्=साधून् इत्यर्थः । तीर्थकृतः केवल्यावस्थायां परिवारत्वेन साधूनां सद्भावात्।‘रमः कान्ते रक्ताशोके मन्मथे' [ अनेकार्थ. २/३३७] इति हैमानेकार्थः । अह इति अव्ययं विनियोगे । यद् वा, मान् इत= प्राप्नुत । किम्भूतान् मान् ? रिणः, रः रकारो विद्यते प्रस्तावादादौ येषां ते रिणः, तान्। कोर्थः ? रमान् । ततोऽयमर्थः-रमः-रक्ताशोकः प्रातिहार्याष्टकमध्ये तृतीयं प्रातिहार्यमसौ, तेन बहुवचनग्रहणात् शेषसप्तप्रातिहार्यग्रहणम्, ततो रमान् अष्टप्रातिहार्याणि इत्यर्थः । तीर्थकरावस्थायामेषां सद्भावात् । ' रमः कान्ते रक्ताशोके' [ अनेकार्थ. २/ ३३७] इति हैमः । देवैर्जिनस्योपरि अशोकतरुश्च काम:, अकञ्च = दुःखं पापं वा
I
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org