________________
श्री अजितनाथस्तुतिः
४१ प्रशंसितजीवनः। यद्वा, संस्तुतः आन:=प्रेम यस्य स संस्तुतानः। आन: कुशलयुक्ते स्याद् वचसि प्रेमधर्मयोः' [ ] इति राजनिघण्टुः । संस्तुतप्रेम इत्यर्थः। दृढधर्मत्वात् । तदाऽमन्त्रणं हे संस्तुतान !। कस्मिन् ? आराजि, आ सामस्त्येन आत्=तीर्थकृ तो राजते = शोभते इति आराट् । अहिंसासंयमतपोलक्षणो दानशीलतपोभावनालक्षणो वा धर्मः, तस्मिन् । जीवनं हि धर्मं विना स्तवनोचितं न स्यात्, त्वं च धर्मकरणे परायणो दृढप्रेमा च, अत एव युक्तं विशेषणमेतत् । यदुक्तम्
जा जावच्चइ रयणी न सा पडिनिअत्तइ।
अहम्मं कुण माणस्स अहला जंति राइउ।[ ] इति। 'धर्मे रागः श्रुतौ चिन्ता' [ ] इत्यादिवाक्याच्च।
अथ अजितार्हन्तं विशेषणैर्विशिनष्टि- किम्भूतम् अजितम् ? तीर्थसन्नायकम्, 'षद्ल विशरणगत्यवसादनेषु'[सि.धा. ९९६] गत्यर्थानां प्राप्त्यर्थत्वात्। तीर्थम् गुरुं तीर्थकरलक्षणं सीदन्ति प्राप्नुवन्ति ये ते। 'क्विप्' [सि.हे. ५/१/१४८] इति क्विपि। तीर्थसदः=गणधराः पञ्चनवतिसंख्याः , सामान्यके वलिनो वा, तेषां मध्ये नायक:= श्रेष्ठो यः स तथा तम्। 'निपानागमयोस्तीर्थमृषिजुष्टेजले गुरौ' [अमर. ३/३/८६] इत्यमरः । तीर्थं शास्त्रे गुरौ [अनेकार्थ. २/२१९] इति हेमचन्द्रसूरिश्च । 'नायको नेतरि श्रेष्ठे' [ ] इति श्रीधरः । यद् वा, तीर्थम् आगमादिशास्त्रं तस्य सन्=प्रशस्तो नायकोऽर्थतः प्रापको यः स तथा तम्। 'अत्थं भासइ अरहा' [ ] इत्युक्तेः । तीर्थं शास्त्रे इति वाक्यात् । पुनः कथम्भूतम् ? सिद्धितादायकम्, 'षिधौ शास्त्रमङ्गल्ययोः[]' सेधति मङ्गल्यं करोतीति, क्विपि, सित्=मङ्गल्यकारि यत् हितम्=पथ्यं धर्मोपदेशलक्षणं तस्य आ समन्तात् दायक: दाता यस्य स तथा तम्। ऐहिकपारत्रिकमङ्गलकारिहितोपदेशदातारमित्यर्थः । पुनः कथम्भूतम् अजितम् ? सिद्धितादायकम्, सिद्धिः=योगविशेषः । यथा 'वज्रां सिद्धिर्व्यतीपात' [ ] इति। सेव तायाः लक्ष्याः सांसारिक्यादायको यः स तथा तम्। यथा हि सिद्धियोगः कार्यकारिणां नृणां लक्ष्मीदाता तथासावपि। 'लक्ष्मी: पद्मा रमा या माता सा श्रीः' [अभिधान. २२६ ] इत्याधुक्तत्वात् । यद् वा, सिद्धीनाम् अणिमादीनां समूहः सिद्धिता, तां दयते-ददाति यः स तथा तम्।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org