________________
४०
श्रीश्रीवल्लभीय-लघुकृति-समुच्चयः इति। हे संस्तुतानाम! सम्यक् अपरचरकादिकुतीर्थिकापेक्षया तीर्थकरप्ररूपितनिरवद्यधर्मनिरतीचारविधायित्वात् स्तुत:=प्रशंसितो यः स संस्तुतः। यद् वा, समन्तात् स्तूयते शङ्कादिदोषादूषितसम्यक्त्वधारित्वाद् यः स संस्तुतः । न विद्यते आम:=रोगो बाह्यान्तरङ्ग भेदभिन्नो यस्यासौ अनामः । पूर्वकृतसुकृतप्राग्भारतो वेदनीयकर्मक्षयतश्च बाह्यान्तरङ्गभेदभिन्नज्वरादिक्रोधादिरोगरहित इत्यर्थः । आम आमय आकल्यमुपतापो गदः समा। [अभिधान. ४६३] इति हैमः। संस्तुतश्चासौ अनामश्च संस्तुता[ना] मः। यद् वा, संस्तुता:=गुणोत्कीर्तनेन देवन्द्रादिभिः प्रशंसिता: ये आ-अर्हन्तस्ते संस्तुताः । 'अः स्यादर्ह ति सिद्धे च' [अपवर्गनाममाला द्वितीय खण्ड] इति श्रीजिनभद्रसूरिः। ‘णम् प्रह्वीभावे'[ ] 'भावाकोंः ' [सि.हे. ५.३.१८] इति भावे घञि, नामः। संस्तुतानां प्रशंसितार्हतां नाम:=प्रणामो यस्य स संस्तुतानामः । सम्यक्त्वप्रतिपत्तेरनन्तरं श्रावकस्य हरिहरादीनां प्रणामाकरणात् । यत्सप्तमोपासकदशाङ्गम्- ‘णो खलु मे भंते कप्पइ अजप्पभिई अण्णउत्थि ए वा अण्णउत्थियदेवयाणि वा अण्णउत्थियपरिग्गहि आणि अरिहंतचेइयाणि वा वंदित्तए वा णमंसित्तए वा' [उपासक. प्रथम अध्याय सूत्र ७] इत्यादि। तदाऽऽमन्त्रणं हे संस्तुतानाम! सुरासुर नर निक र संस्तुततीर्थङ्करचरणप्रणामकरणप्रवण हे श्रावक! तम् अजितम् अजितनामानं द्वितीयमर्हन्तं अम=भजस्व। 'अम शब्दभक्त्योः '। [सि.धा. ३९१] भक्ति: भजनम्' [ ] इति धातुपारायणम् । यत्तदोर्नित्यसम्बन्धात् तम् इति कम्? यत्-अजिततीर्थंकरं सत्त्वम् बलं कर्तृ आर-प्राप। 'कं प्रापणे च' भ्वादिः परस्मैपदी [सि.धा. २६] । बलं हि सुरासुरनरेश्वरादीन् विहाय श्रीअजितनाथजिनं प्राप्तवान् इत्यर्थः । अपरसांसारिकजीवापेक्षया तीर्थकृतो बलस्य अनन्तत्वात्। सत्त्वं द्रव्ये गुणे चित्ते व्यवसाय स्वभावयोः । पिशाचादावात्मभावे बले [अनेकार्थ. २/५५३] इति हेमचन्द्रसूरयः। किम्भूत हे संस्तुतानाम ! सत्त्वम्। सन्=प्रशस्तः सभ्यो वा त्वं सत्त्वम्, तदाऽऽमन्त्रणं हे सत्त्वम् ! 'सद् विद्यमाने सत्ये च प्रशस्तार्चितसाधुषु' [अनेकार्थ. १/१० ] इति हैमानेकार्थः । वाच्यलिङ्गोऽयम्। पुनः कथम्भूतः हे संस्तुतानाम! संस्तुतान ! 'अनश्वसक् प्राणने' अदादिः [सि.धा. १०८९] । प्राणनम् जीवनं, घञि, आनः। संस्तुतः आनः जीवनं यस्य स संस्तुतानः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org