SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ महोपाध्यायश्रीजयसागरकृता साधारणजिनस्तुतिः अपरार्थतः श्री* अजितनाथस्तुतिः वादिश्रीश्रीवल्लभगणिविरचित-मूलार्थपरिहाररूपा व्याख्याद्वयसंवलिता ।। ।। एँ नमः।। श्रीमन्तमजितं नुत्वा श्रीश्रीवल्लभवादिभिः । वास्तवार्थं परित्यज्य नवीनोऽर्थः प्रकाश्यते॥१॥ स्तुतेरजितनाथस्य द्वितीयस्य जिनेशितुः। यमकस्रग्विणीछन्दः कृताया जयसागरैः।।२।। युग्मम्। सर्वतीर्थकृतामेषा साधारणा स्तुतिः खलु। तथाप्यजितनाथस्य ज्ञेया भिन्नार्थतो बुधैः।।३।। कवीश्वर-शिरोवतंसैः श्रीजयसागरमहोपाध्यायहंसैस्तीर्थकृतां लघुवृद्धसंस्कृतप्राकृतयमकाऽयमकमयस्तोत्राणां पञ्चशती विहिता। स्तुतयोऽप्यस्तोकास्तथैव विहितास्तासां मध्यादेषा सर्वतीर्थकृतां साधारणास्तुतिः, तथापि मूलार्थपरिवर्जनान्नवीनापरार्थविधानाच्चात्र व्याख्याने श्रीअजितनाथस्तुतिः, अतस्तस्याः किञ्चिद् व्याख्या प्रकाश्यते तीर्थसन्नायकं सिद्धितादायकं , सिद्धितादायकं तीर्थसन्नायकम्। संस्तुतानाम यं सत्त्वमाराजितं, . सत्त्वमाराजितं संस्तुतानाम यम्॥१॥ तीर्थेत्यादि। अत्र काव्ये अर्द्धपरिवृत्तिर्नाम यमकम्। तदुदाहरणञ्च काव्यानुशासने, यथा ससारसाकं दर्पण कन्दर्पण स सारसा। शरनवानाविभ्राणा ना बिभ्राणा शरन्नवा।। * सन्ध्यभावः चिन्त्यः। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004049
Book TitleVallabhiya Laghukruti Samucchaya
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRander Road Jain Sangh
Publication Year2012
Total Pages188
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy